जगदाद्यङ्कुरस् तत्र यद्य् अस्ति तद् असौ तदा । कैर् इवोदेति कथय कारणैस् सहकारिभिः
सहकारिकारणानाम् अभावे वाङ्कुरोद्गतिः । वन्ध्याकन्या च दृष्टेह न कदाचन केनचित्
सहकारिकारणानाम् अभावे यच् च वोदितम् । मूलकारणम् एवात्मा तत् स्वभावे स्थितं तथा
सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति । यथास्थितम् अनाकारं क्व जन्यजनकक्रमः
अथ पृथ्व्यादयो ऽन्ये वा कुतो ऽप्य् आगत्य कुर्वते । सहकारिकारणत्वं तत् पूर्वैवात्र दूषणा
तस्मात् परे जगच् छान्तम् आस्ते तत् सहकारणैः । विना प्रसरतीत्य् उक्तिर् बालस्य न विपश्चितः
तस्माद् राम जगन् नासीन् न चास्ति न भविष्यति । चेतनाकाशम् एवाच्छं कचतीत्थम् इवात्मनि
अत्यन्ताभाव एवास्य जगतो विद्यते यदा । तदा ब्रह्मेदम् अखिलम् इति सद् राम नान्यथा
पूर्वप्रध्वंसनान्योऽन्याभावैर् यद् उपशाम्यति । अशान्तम् एव तच् चित्ते न शाम्यत्य् एव तद् यतः
अत्यन्ताभावम् एवातो जगद्दृश्यस्य सर्वथा । वर्जयित्वेतरा युक्तिर् नास्त्य् एवानर्थसङ्क्षये
चिदाकाशस्य बोधो ऽयं जगदादीति यत् स्थितम् । अयं सो ऽहम् इदं रूपालोकचित्तकलाद्य् अपि
इदम् अर्कादि पृथ्व्यादि तथेदं वत्सरादि च । अयं कल्पः क्षणश् चायम् इमे मरणजन्मनी
अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः । अयं स सर्गप्रारम्भो भावाभावक्रमस् त्व् असौ
लक्षाणीमानि कल्पानाम् इमा ब्रह्माण्डकोटयः । इमे ब्रह्मेन्द्रनिचया इमा विष्ण्वादिशक्तयः
एते चेमे परिणता इमे भूय उपागताः । इमानि धिष्ण्यजालानि देशकालकला इमाः
महाचित्परमाकाशम् अनावृत्तम् अनन्तकम् । यथा पूर्वं स्थितं शान्तम् इत्य् एवं कचति स्वयम्
परमाणुसहस्रांशभास एता महाचितेः । स्वभावभूता एवान्तस्स्थिता नायान्ति यान्ति नो
स्वयम् अन्तश् चमत्कारो यस् समुद्गीर्यते चिता । तत् सर्गभानं भातीदं भारूपं न च भित्तिमत्
नोद्यन्ति न च नश्यन्ति नायान्ति न च यान्ति च । महाशिलान्तर्लेखानां सन्निवेश इवाचलाः
इमे सर्गाः प्रस्फुरन्ति स्वतस् स्वात्मनि निर्मले । नभसीव नभोभागा निराकारा निराकृतौ
द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः । आवर्ता इव वाम्भोधेर् गुणिनो वाथवा गुणाः
विज्ञानघन एवैकम् इदम् इत्थम् अवस्थितम् । सोदयास्तमयारम्भम् अनन्तं शान्तम् आततम्
सहकार्यादिहेतूनाम् अभावे शून्यता जगत् । स्वयम्भूर् जायते चेति किलोन्मत्तकफूत्कृतम्
प्रशान्तसर्वार्थकलाकलङ्को निरस्तनिश्शेषविकल्पतल्पः । चिराय विद्रावितदीर्घनिद्रो भवाभयो भूषितभूः प्रबुद्धः
महाप्रलयसर्गादाव् एवम् एतद् रघूद्वह । स्मृत्यात्मैव भवत्य् आदौ प्रथमो ऽसौ प्रजापतिः
तत्सङ्कल्पात्म च जगत् स्मृत्यात्मैवम् इदं ततः । भाति सङ्कल्पनगरं स्थितं पूर्वप्रजापतेः
इति स्थिते ऽपि सा राम तस्य पूर्वप्रजापतेः । स्थितिर् न सम्भवत्य् एव नभसीव महाद्रुमः
न सम्भवति किं ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः । महाप्रलयसम्मोहैर् नश्यति प्राक्स्मृतिः कथम्
प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा । किल निर्वाणम् आयातास् ते ऽवश्यं ब्रह्मतां गताः
प्राक्तन्याः कस् स्मृतेस् स्मर्ता तस्मात् कथय सुव्रत । स्मृतिर् निर्मूलतां याता स्मर्तुर् मुक्ततया यतः