नीहार इव विस्तारि गृहीतं सन् न किञ्चन । जडं शून्यास्पदं शून्यं केषाञ्चित् परमाणुवत्
किञ्चिद् भूतमयो ऽस्तीति स्थितं शून्यम् अभूतकम् । गृह्यमाणम् असद्रूपं निशातम इवोत्थितम्
महाकल्पक्षये दृश्यम् आस्ते बीज इवाङ्कुरम् । परे भूय उदेत्य् एतत् तत एवेति किं वद
एवम्बोधाः किम् अज्ञास् स्युर् उत तज्ज्ञा इति स्फुटम् । यथावद् भगवन् ब्रूहि सर्वसंशयशान्तये
इदं बीजे ऽङ्कुर इव दृश्यम् आस्ते महाक्षये । ब्रूते यः परम् अज्ञत्वम् एतत् तस्यातिशैशवात्
स्पर्शे किं तद् असम्बद्धं कथम् एतद् अवास्तवम् । विपरीतो बोध एष वक्तुश् श्रोतुश् च मौर्ख्यकृत्
बीजकाले ऽङ्कुर इव जगद् आस्त इतीह या । बुद्धिस् सासत्प्रलापार्था मूढा शृणु कथं किल
बीजं भवेत् स्वयं दृश्यं चित्तादीन्द्रियगोचरः । वटधानादि धान्यादि युक्तम् अत्राङ्कुरोद्भवः
मनष्षष्ठेन्द्रियातीतं यः खाद् अतितराम् अपि । बीजं तद् भवितुं शक्तं स्वयम्भूर् जगतः कथम्
आकाशाद् अपि सूक्ष्मस्य परस्य परमात्मनः । सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम्
सत् सूक्ष्मम् असदाभासम् असद् एव ह्य् अतद्दृशाम् । कीदृशी बीजता तत्र बीजाभावे कुतो ऽङ्कुरः
गगनाङ्गाद् अपि स्वच्छे शून्ये तत्र परे पदे । कथं सन्ति जगन्मेरुसमुद्रगगनादयः
नकिञ्चिद् यत् कथं किञ्चित् तत्रास्ते वस्त्व् अवस्तुनि । अस्ति चेत् तत् कथं तत्र विद्यमानं न दृश्यते
नकिञ्चिदात्मनः किञ्चित् कथम् एति कुतो ऽथ वा । शून्यरूपाद् घटाकाशाज् जातो ऽद्रिः क्व कुतः कदा
प्रतिपक्षे कथं किञ्चिद् आस्ते छायातपे यथा । कथम् आस्ते तमो भानौ कथम् आस्ते हिमे ऽनलः
मेरुर् आस्ते कथम् अणौ कुतः किञ्चिद् अनाकृतौ । तदतद्रूपयोर् ऐक्यं क्व च्छायातपयोर् इव
साकारे वटधानादाव् अङ्कुरो ऽस्तीति युक्तिमत् । अनाकारे महाकारं जगद् अस्तीत्य् अयुक्तिमत्
देशान्तरे यच् च नरान्तरे च बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् । नास्त्य् एव तत्तद्विधबुद्धिबोधे नकिञ्चिद् इत्य् एव तद् उच्यते च
कार्यस्य तत् कारणतां प्रयातं वक्तीति यस् तस्य विमूढबोधः । कैर् नाम तत्कार्यम् उदेति तस्मात् स्वैः कारणौघैस् सहकारिरूपैः
दुर्बुद्धिभिः कारणकार्यभावं सङ्कल्पितं दूरतरे व्युदस्य । यद् एव तत् सत्यम् अनादिमध्यं जगत् तद् एव स्थितम् इत्य् अवेहि
जगदाद्यङ्कुरस् तत्र यद्य् अस्ति तद् असौ तदा । कैर् इवोदेति कथय कारणैस् सहकारिभिः
सहकारिकारणानाम् अभावे वाङ्कुरोद्गतिः । वन्ध्याकन्या च दृष्टेह न कदाचन केनचित्
सहकारिकारणानाम् अभावे यच् च वोदितम् । मूलकारणम् एवात्मा तत् स्वभावे स्थितं तथा
सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति । यथास्थितम् अनाकारं क्व जन्यजनकक्रमः
अथ पृथ्व्यादयो ऽन्ये वा कुतो ऽप्य् आगत्य कुर्वते । सहकारिकारणत्वं तत् पूर्वैवात्र दूषणा
तस्मात् परे जगच् छान्तम् आस्ते तत् सहकारणैः । विना प्रसरतीत्य् उक्तिर् बालस्य न विपश्चितः
तस्माद् राम जगन् नासीन् न चास्ति न भविष्यति । चेतनाकाशम् एवाच्छं कचतीत्थम् इवात्मनि
अत्यन्ताभाव एवास्य जगतो विद्यते यदा । तदा ब्रह्मेदम् अखिलम् इति सद् राम नान्यथा
पूर्वप्रध्वंसनान्योऽन्याभावैर् यद् उपशाम्यति । अशान्तम् एव तच् चित्ते न शाम्यत्य् एव तद् यतः
अत्यन्ताभावम् एवातो जगद्दृश्यस्य सर्वथा । वर्जयित्वेतरा युक्तिर् नास्त्य् एवानर्थसङ्क्षये