अखण्डचितिरूपस्य देहे खण्डनम् आगते । असम्यग्दर्शिनो ऽप्य् अस्ति न नाशः किम् उ सन्मतेः
यद् एतद् अर्कमार्गे ऽपि न विरुद्धगमागमम् । चित्त्वं राम स विज्ञेयः पुरुषो न शरीरकम्
शरीरे सत्य् असति वा पुमान् एष जगत्त्रये । ज्ञो ऽप्य् अज्ञो ऽपि स्थितो राम नष्टे देहे न नश्यति
यानीमानि विचित्राणि दुःखानि परिपश्यसि । तानि सर्वाणि देहस्य नाग्राह्यस्य चिदात्मनः
मनोमर्गाद् अतीतत्वाद् यासौ शून्यम् इव स्थिता । चित् कथं नाम सा दुःखैस् सुखैर् वा परिगृह्यते
संविदात्मा तद् अस्मात् तु विशिष्टाद् देहपञ्जरात् । अभ्यस्तां वासनां याति षट्पदः खम् इवाम्बुजात्
असच् चेद् आत्मतत्त्वं तद् अस्मिंस् ते देहपञ्जरे । नष्टे किं नाम नष्टं स्याद् राम येनानुशोचसि
सत्यं भावय तेन त्वं मा मोहम् अनुभावय । निरिच्छस्यात्मनो नेच्छाः काश्चिद् अप्य् अनघाकृतेः
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । स्वयं जगन्ति दृश्यन्ते सन्मणाव् इव रश्मयः
निरिच्छम् अभिसम्बन्धो यथा दर्पणबिम्बयोः । स्वभाववशसम्पन्नस् तथा चिज्जगतोर् अयम्
द्वित्वैकत्वे स्थिते यद् वर्मकुरप्रतिबिम्बयोः । तथैवेहात्मजगतोर् भेदाभेदौ व्यवस्थितौ
सूर्यसन्निधिमात्रे तु यथोदेति भुवि क्रिया । चित्सत्तामात्रकेनेदं जगन् निष्पद्यते तथा
पिण्डग्रहे निवृत्ते ऽस्या एवं राम जगत्स्थितेः । आकाशम् एषा सम्पन्ना भवताम् अपि चेतसि
सत्तामात्रेण दीपस्य यथा दीप्तिस् स्वभावतः । चित्तत्त्वस्य स्वभावात् तु तथेयं जागती क्रिया
पूर्वं मनस् समुदितं परमात्मतत्त्वात् तेनाततं जगद् इदं स्वविकल्पजालम् । शून्येन शून्यम् अमलेन यथाम्बरेण नीलत्वम् उल्लसति चारुलताभिरामम्
सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदीव खम् आश्रितायां चिन्मात्रम् एकम् अजम् आद्यम् अनन्तम् अन्तः
कर्मात्मकं प्रथमम् एव मनो ऽभ्युदेति सङ्कल्पतः कमलजप्रकृतिं तद् एत्य । नानाविधं जगद् अनन्तम् इदं तनोति वेतालदेहकलनाम् इव मुग्धबालः
असन्मयं सद् इव पुरोपलक्ष्यते पुनर् भवत्य् अथ परिलीयते पुनः । स्वयं मनश् चिति विततं स्फुरद्वपुर् महार्णवे जलवलयावली यथा
अकर्तृकम् अनङ्गं च गगने चित्रम् उत्थितम् । अद्रष्टृकं सानुभवम् अनिद्रं स्वप्नदर्शनम्
भविष्यत्पुरनिर्माणं चित्रसंस्थम् इवोदितम् । मर्कटानलतापाभम् अम्ब्वावर्तवद् आस्थितम्
सद्रूपम् अपि निश्शून्यं तेजस् सौरम् इवाम्बरे । रत्नाभाजालम् इव खे दृश्यमानम् अभित्तिमत्
सङ्कल्पपुरवत् प्रौढम् अनुभूतम् असन्मयम् । कथार्थप्रतिभानात्म न क्वचित् स्थितम् अस्ति च
निस्सारम् अप्य् अतीवान्तस्सारं स्वप्नाचलोपमम् । भूताकाशम् इवाकारभासुरं शून्यमात्रकम्
शरदभ्रम् इवाग्रस्थम् अलक्ष्यक्षयम् आक्षयि । वर्णो व्योमतलस्येव दृश्यमानम् अवस्तुकम्
स्वप्नाङ्गनारताकारम् अर्थनिष्ठम् अनर्थकम् । चित्रोद्यानम् इवोत्फुल्लम् अरसं सरसाकृति
प्रकाशम् इव निस्तेजश् चित्रार्कानलवत् स्थितम् । अनुभूतं मनोराज्यम् इवासत्यम् अवास्तवम्
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् । शून्ये प्रकचितं नानावर्णम् आकारितात्मकम्
परमार्थेन शुष्यद्भिर् भूतपेलवपल्लवैः । ततं जडम् असारात्म कदलीस्तम्भभासुरम्
स्फारितेक्षणदृश्यान्धकारचक्रकवत् ततम् । अत्यन्तम् अभवद्रूपम् अपि प्रत्यक्षवत् स्थितम्
वार् बुद्बुद इवाभोगि शून्यम् अन्तस् स्फुरद्वपुः । रसात्मकं सत्यरसम् अविच्छिन्नक्षयोदयम्