शिवाद् राघव नीरूपाद् अप्रमेयान् निरामयात् । सर्वभूतानि जातानि प्राकाश्यानीव तेजसः
रेखावृन्दं यथा पर्णे वीचिजालं यथा जले । कटकादि यथा हेम्नि तथौष्ण्यादि यथानले
तदतद्भावभूतं हि तथेदं भुवनत्रयम् । तस्मिन्न् एव स्थितं तज्जं तस्माद् एव तद् एव च
स एष सर्वभूतानाम् आत्मा ब्रह्मेति कथ्यते । तस्मिञ् ज्ञाते जगज् ज्ञातम् अज्ञाते ऽज्ञातम् एव तत्
शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः । चिद् ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः
विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता । यैषा शुद्धानुभूतिर् हि सो ऽयम् आत्मा चिदव्ययः
आकाशातितराच्छाच्छम् इदं तस्मिंश् चिदात्मनि । स्वाभोग एव हि जगत् पृथग्वत् प्रतिबिम्बति
बुद्धास् तद्व्यतिरेकेण लोभमोहादयो ऽरिताम् । यान्त्य् अथाव्यतिरेकेण बुद्धास् तस्मिंस् तदैव ते
अदेहस्यैव ते नाम निर्विकल्पचिदाकृतेः । लज्जाभयविषादाख्यः कुतो मोहस् समुत्थितः
अदेहो देहजैर् दोषैर् लज्जादिभिर् असन्मयैः । किं मूर्ख इव दुर्बुद्धे विकल्पैर् अभिभूयसे
अखण्डचितिरूपस्य देहे खण्डनम् आगते । असम्यग्दर्शिनो ऽप्य् अस्ति न नाशः किम् उ सन्मतेः
यद् एतद् अर्कमार्गे ऽपि न विरुद्धगमागमम् । चित्त्वं राम स विज्ञेयः पुरुषो न शरीरकम्
शरीरे सत्य् असति वा पुमान् एष जगत्त्रये । ज्ञो ऽप्य् अज्ञो ऽपि स्थितो राम नष्टे देहे न नश्यति
यानीमानि विचित्राणि दुःखानि परिपश्यसि । तानि सर्वाणि देहस्य नाग्राह्यस्य चिदात्मनः
मनोमर्गाद् अतीतत्वाद् यासौ शून्यम् इव स्थिता । चित् कथं नाम सा दुःखैस् सुखैर् वा परिगृह्यते
संविदात्मा तद् अस्मात् तु विशिष्टाद् देहपञ्जरात् । अभ्यस्तां वासनां याति षट्पदः खम् इवाम्बुजात्
असच् चेद् आत्मतत्त्वं तद् अस्मिंस् ते देहपञ्जरे । नष्टे किं नाम नष्टं स्याद् राम येनानुशोचसि
सत्यं भावय तेन त्वं मा मोहम् अनुभावय । निरिच्छस्यात्मनो नेच्छाः काश्चिद् अप्य् अनघाकृतेः
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । स्वयं जगन्ति दृश्यन्ते सन्मणाव् इव रश्मयः
निरिच्छम् अभिसम्बन्धो यथा दर्पणबिम्बयोः । स्वभाववशसम्पन्नस् तथा चिज्जगतोर् अयम्
द्वित्वैकत्वे स्थिते यद् वर्मकुरप्रतिबिम्बयोः । तथैवेहात्मजगतोर् भेदाभेदौ व्यवस्थितौ
सूर्यसन्निधिमात्रे तु यथोदेति भुवि क्रिया । चित्सत्तामात्रकेनेदं जगन् निष्पद्यते तथा
पिण्डग्रहे निवृत्ते ऽस्या एवं राम जगत्स्थितेः । आकाशम् एषा सम्पन्ना भवताम् अपि चेतसि
सत्तामात्रेण दीपस्य यथा दीप्तिस् स्वभावतः । चित्तत्त्वस्य स्वभावात् तु तथेयं जागती क्रिया
पूर्वं मनस् समुदितं परमात्मतत्त्वात् तेनाततं जगद् इदं स्वविकल्पजालम् । शून्येन शून्यम् अमलेन यथाम्बरेण नीलत्वम् उल्लसति चारुलताभिरामम्
सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदीव खम् आश्रितायां चिन्मात्रम् एकम् अजम् आद्यम् अनन्तम् अन्तः
कर्मात्मकं प्रथमम् एव मनो ऽभ्युदेति सङ्कल्पतः कमलजप्रकृतिं तद् एत्य । नानाविधं जगद् अनन्तम् इदं तनोति वेतालदेहकलनाम् इव मुग्धबालः
असन्मयं सद् इव पुरोपलक्ष्यते पुनर् भवत्य् अथ परिलीयते पुनः । स्वयं मनश् चिति विततं स्फुरद्वपुर् महार्णवे जलवलयावली यथा
अकर्तृकम् अनङ्गं च गगने चित्रम् उत्थितम् । अद्रष्टृकं सानुभवम् अनिद्रं स्वप्नदर्शनम्
भविष्यत्पुरनिर्माणं चित्रसंस्थम् इवोदितम् । मर्कटानलतापाभम् अम्ब्वावर्तवद् आस्थितम्