रूपम् आस्फारयत्य् एकम् एकत्वाद् एव नान्यथा । चिच् चिता मिलिता दृश्यरूपयोदेति चेतनम्
जडं जडेन मिलितं जडं सम्पद्यते घनम् । न च चिज्जडयोर् ऐक्यं वैलक्षण्यात् क्वचिद् भवेत्
चिज्जडौ चेत् स्त एकत्र न तौ सम्मिलतः क्वचित् । चिन्मयत्वाच् चिदालेहे चिदालेहेन वेदनम्
दारुपाषाणभेदानां न तु ह्य् एते चिदात्मकाः । पदार्थो हि पदार्थेन परिणम्यानुभूयते
जिह्वयेव रसस् सा च सजातीयोदया चला । ऐक्यं च विद्धि सम्बन्धं नास्त्य् असारससारयोः
जडचेतनयोस् तेन नोपलादि जडं मतम् । चिद् एवोपलकुड्यादिरूपिणी मिलिता चिता
एकीभावं गता द्रष्टृदृश्यादि कुरुते भ्रमम् । काष्ठोपलाद्य् अशेषं हि परमार्थमयं यदा
तदात्मनान्तस्सम्बद्धं दृश्यत्वेनोपलभ्यते । सर्वं सर्वप्रकाराढ्यम् अनन्तम् इव यत् ततम्
विश्वं सन्मात्रम् एवैतद् विद्धि तत्त्वविदां वर । असताप्य् अङ्ग विश्वेन विश्वलक्षशतभ्रमैः
पूरितश् चिच्चमत्कारो न च किञ्चन पूरितम् । सङ्कल्पनगरा नॄणां मिथः पश्यति नो यथा
न देशकालबोधाय तथा सर्गाश् चिति स्थिताः । भेदबोधो हि सर्गत्वम् अहन्तादिभ्रमोदयः
हेमसंवित्परित्यागे कटकादिभ्रमो यथा । कटकादिभ्रमो हेम्नि देशादेस् सम्भवाद् भवेत्
त्वद्दर्शनपरीतात् तु नाविद्यास्ति पृथक् परा । कटकादिमहाभेदम् एकं ब्रह्म तथामलम्
बोधैकत्वाद् अयं सर्गस् सत्तैवासद् भवत्य् अलम् । सेना मृत्संविदा चित्रा मृण्मात्रम् इव मृण्मयी
जलम् एकं तरङ्गादि दार्व् एकं सालभञ्जिकाः । मृण्मात्रम् एकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः
सम्बन्धे द्रष्टृदृश्यानां मध्ये द्रष्टुर् हि यद् वपुः । द्रष्टृदर्शनदृश्यादिवर्जितं तद् इदं परम्
देशाद् देशं गते चित्ते मध्ये यश् चेतसो वपुः । अजाड्यसंविन्मननं तन्मयो भव सर्वदा
अजाग्रत्स्वप्ननिद्रस्य यत् ते रूपं सनातनम् । अचेतनं चाजडं च तन्मयो भव सर्वदा
जडतां वर्जयित्वैकां शिलाया हृदयं हि यत् । अक्षुब्धो वाथवा क्षुब्धस् तन्मयो भव राघव
कस्यचित् किञ्चनापीह नोदेति न विलीयते । अक्षुब्धो वाथवा क्षुब्धस् स्वस्थस् तिष्ठ यथासुखम्
नाभिवाञ्छति न द्वेष्टि देहे किञ्चित् क्वचित् पुमान् । स्वस्थस् तिष्ठ निराशङ्कं देहवृत्तिम् उपागतः
भविष्यद्ग्रामकग्राम्यकार्ये तिष्ठसि नो यथा । चित्तवृत्तिषु मा तिष्ठ तथा तथ्यात्मतां गतः
यथा देशान्तरनरो यथा काष्ठं यथोपलः । तथैव पश्य चित्तं त्वम् अचित्तैव यथात्मता
यथा दृषदि नास्त्य् अम्बु यथाम्भस्य् अनलस् तथा । स्वात्मन्य् एवास्ति नो चित्तं परमात्मनि तत् कुतः
प्रेक्ष्यमाणं न यत् किञ्चित् तेन यत् क्रियते क्वचित् । कृतं भवति तन् नेति मत्वा चित्तातिगो भव
अत्यन्तानात्मभूतस्य चेच् चित्तस्यानुवर्तसे । पर्यन्तवासिनः कस्मान् न म्लेच्छस्यानुवर्तसे
निरन्तरम् अनादृत्य त्वम् आराच् चित्तपुक्कसम् । स्वस्थम् आस्स्व निराशङ्कं पङ्केनेव कृतो जडः
चित्तं नास्त्य् एव मे भूतं मृतम् एवाद्य वेति च । भव निश्चयवान् भूत्वा शिलापुरुषनिश्चलः
प्रेक्षायाम् अस्ति नो चित्तं तद्विहीनो ऽसि तत्त्वतः । तत् किमर्थम् अनर्थेन तदर्थेन कदर्थ्यसे
असता चित्तयक्षेण ये ऽथवातिवशीकृताः । तेषां पेलवबुद्धीनां चन्द्राद् अशनिर् उत्थिता