तथा स्वप्नो ऽपि भवति कालो देशः क्रियापि च । व्यवहारगतेस् त्व् अस्यास् सत्तास्ति प्रतिभासतः
सत्ता सर्वपदार्थानां नान्या संवेदनाद् ऋते । संवेदने ऽन्तर् आभाति विचित्रा सर्गसन्ततिः
भूतभव्यभविष्यत्स्था तरुबीजे तरुर् यथा । तस्यास् सत्त्वम् असत्त्वं च न सन् नासद् इति स्थितम्
सत् सद् एव हि संवित्तेर् असंवित्तेर् न सन्मयम् । नाविद्या विद्यते किञ्चित् तैलादि सिकतास्व् इव
हेम्नः किं कटुकत्वं तद् अन्यत् स्याद् धेमतां विना । अविद्ययात्मनो ऽच्छस्य सम्बन्धो नोपपद्यते
सम्बन्धस् सदृशानां यस् स स्फुटस् सो ऽनुभूतिदः । जतुकाष्ठादिसम्बन्धो यस् स नो समयोर् अतः
नान्योऽन्यानुभवात्मासौ तद् एकास्पदमात्रकम् । परमार्थमयं सर्वं यदा तेनोपलादयः
चिता समभिचेत्यन्ते सम्बन्धवशतस् समात् । यदा चिन्मात्रसन्मात्रमयास् सर्वे जगद्गताः
भावास् तदा विभान्त्य् एते मिथस् स्वानुभवस्थितौ । न सम्भवति सम्बन्धो विषमाणां निरन्तरः
न परस्परसम्बन्धाद् विनानुभवनं मिथः । सदृशे सदृशं वस्तु क्षणाद् गत्वैकताम् अलम्
रूपम् आस्फारयत्य् एकम् एकत्वाद् एव नान्यथा । चिच् चिता मिलिता दृश्यरूपयोदेति चेतनम्
जडं जडेन मिलितं जडं सम्पद्यते घनम् । न च चिज्जडयोर् ऐक्यं वैलक्षण्यात् क्वचिद् भवेत्
चिज्जडौ चेत् स्त एकत्र न तौ सम्मिलतः क्वचित् । चिन्मयत्वाच् चिदालेहे चिदालेहेन वेदनम्
दारुपाषाणभेदानां न तु ह्य् एते चिदात्मकाः । पदार्थो हि पदार्थेन परिणम्यानुभूयते
जिह्वयेव रसस् सा च सजातीयोदया चला । ऐक्यं च विद्धि सम्बन्धं नास्त्य् असारससारयोः
जडचेतनयोस् तेन नोपलादि जडं मतम् । चिद् एवोपलकुड्यादिरूपिणी मिलिता चिता
एकीभावं गता द्रष्टृदृश्यादि कुरुते भ्रमम् । काष्ठोपलाद्य् अशेषं हि परमार्थमयं यदा
तदात्मनान्तस्सम्बद्धं दृश्यत्वेनोपलभ्यते । सर्वं सर्वप्रकाराढ्यम् अनन्तम् इव यत् ततम्
विश्वं सन्मात्रम् एवैतद् विद्धि तत्त्वविदां वर । असताप्य् अङ्ग विश्वेन विश्वलक्षशतभ्रमैः
पूरितश् चिच्चमत्कारो न च किञ्चन पूरितम् । सङ्कल्पनगरा नॄणां मिथः पश्यति नो यथा
न देशकालबोधाय तथा सर्गाश् चिति स्थिताः । भेदबोधो हि सर्गत्वम् अहन्तादिभ्रमोदयः
हेमसंवित्परित्यागे कटकादिभ्रमो यथा । कटकादिभ्रमो हेम्नि देशादेस् सम्भवाद् भवेत्
त्वद्दर्शनपरीतात् तु नाविद्यास्ति पृथक् परा । कटकादिमहाभेदम् एकं ब्रह्म तथामलम्
बोधैकत्वाद् अयं सर्गस् सत्तैवासद् भवत्य् अलम् । सेना मृत्संविदा चित्रा मृण्मात्रम् इव मृण्मयी
जलम् एकं तरङ्गादि दार्व् एकं सालभञ्जिकाः । मृण्मात्रम् एकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः
सम्बन्धे द्रष्टृदृश्यानां मध्ये द्रष्टुर् हि यद् वपुः । द्रष्टृदर्शनदृश्यादिवर्जितं तद् इदं परम्
देशाद् देशं गते चित्ते मध्ये यश् चेतसो वपुः । अजाड्यसंविन्मननं तन्मयो भव सर्वदा
अजाग्रत्स्वप्ननिद्रस्य यत् ते रूपं सनातनम् । अचेतनं चाजडं च तन्मयो भव सर्वदा
जडतां वर्जयित्वैकां शिलाया हृदयं हि यत् । अक्षुब्धो वाथवा क्षुब्धस् तन्मयो भव राघव
कस्यचित् किञ्चनापीह नोदेति न विलीयते । अक्षुब्धो वाथवा क्षुब्धस् स्वस्थस् तिष्ठ यथासुखम्