संसारसंसृतेर् अस्या गन्धकुट्याश् शिरोगता । देहयष्ट्या जरानाम्नी चामरश्रीर् विराजते
जराचन्द्रोदयसिते शरीरनगरे स्थिते । क्षणाद् विकासम् आयाति मुने मरणकैरवम्
जरासुधालेपसिते शरीरान्तःपुरान्तरे । अशक्तिर् आर्तिर् आपच् च तिष्ठन्ति सुखम् अङ्गनाः
अभावाग्रेसरा यत्र जरा जयति जन्तुषु । कस् तत्रेह समाश्वासो मम मन्दमतेर् मुने
किं तेन दुर्जीवितदुर्ग्रहेण जरां गतेनापि हि जीव्यते यत् । जरा जगत्याम् अजिता नराणां सर्वैषणास् तात तिरस्करोति
विकल्पकल्पनानल्पकल्पितैर् अल्पबुद्धिभिः । भेदैर् उद्धुरतां नीतस् संसारकुहकभ्रमः
सतां कथम् इवास्थेह जायते जालपञ्जरे । बाला एवात्तुम् इच्छन्ति फलं मकुरबिम्बितम्
इहापि विद्यते यैषा पेलवा सुखभावना । आखुस् तन्तुम् इवाशेषं कालस् ताम् अपि कृन्तति
न तद् अस्तीह यद् अयं कालस् सकलघस्मरः । ग्रसते न जगज्जातं महाब्धिम् इव वाडवः
समस्तसामान्यतया भीमः कालो महेश्वरः । दृश्यसत्ताम् इमां सर्वां कवलीकर्तुम् उद्यतः
महताम् अपि नो देवः प्रतिपालयति क्षणात् । कालः कवलितानन्तविश्वो विश्वात्मतां गतः
युगवत्सरकल्पाख्यैः किञ्चित् प्रकटतां गतः । रूपैर् अलक्ष्यरूपात्मा सर्वम् आक्रम्य तिष्ठति
ये रम्या ये शुभारम्भास् सुमेरुगुरवो ऽपि ये । कालेन विनिगीर्णास् ते करभेणेव पन्नगाः
निर्दयः कठिनः क्रूरः कर्कशः कृपणो ऽधमः । न तद् अस्ति यद् अद्यापि न कालो निगिरत्य् अयम्
कालः कवलनैकान्तमतिर् अत्ति गिरीन् अपि । अनन्तैर् अपि भोगौघैर् नायं तृप्तो महाशनः
हरत्य् अयं नाशयति करोत्य् अत्ति निहन्ति च । कालस् संसारनृत्ये हि नानारूपैर् यथा नटः
भिनत्ति प्रविभागस्थो भूतबीजान्य् अनारतम् । जगत्य् असत्तया चञ्च्वा दाडिमानि यथा शुकः
शुभाशुभविषाणाग्रविलूनजनपल्लवः । स्फूर्जति स्फीतजनताजीवराजीविनीगजः
विरिञ्चमज्जब्रह्माण्डबृहद्बिल्वफलद्रुमम् । ब्रह्मकाननम् आभोगि परम् आवृत्य तिष्ठति
यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः । वर्षकल्पकलावल्लीर् न कदाचन खिद्यते
भिद्यते नावभग्नो ऽपि दग्धो ऽपि हि न दह्यते । दृश्यते नातिदृश्यो ऽपि धूर्तचूडामणिर् मुने
एकेनैव निमेषेण किञ्चिद् उत्थापयत्य् अलम् । किञ्चिद् विनाशयत्य् उच्चैर् मनोराज्यवद् आततः
दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया । दर्व्येव सूपकृत् सूपं जनम् आवर्तयन् स्थितः
तृणं पांसुं महेन्द्रं च सुमेरुं पर्णम् अर्णवम् । आत्मस्फारतया सर्वम् आत्मसात्कर्तुम् उद्यतः
क्रौर्यम् अत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता । सर्वं दौर्भाग्यम् अत्रैव सर्वम् अत्रैव चापलम्
प्रेरयंल् लीलयार्केन्दू क्रीडतीह नभस्तले । निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने
सर्वभूतास्थिमालाभिर् आपादवलिताकृतिः । विलसत्य् एष कल्पान्ते कालः कल्पितकल्पनः
अस्योड्डामरनृत्तस्य कल्पान्ते ऽङ्गविनिर्गतैः । प्रस्फुरत्य् अम्बरे मेरुर् भूर्जत्वग् इव वायुभिः
रुद्रो भूत्वा भवत्य् एष महेन्द्रो ऽथ पितामहः । शुक्रो वैश्रवणश् चापि पुनर् एव न किञ्चन
धत्ते ऽजस्रोत्थितध्वस्तान् सर्गान् अमितभासुरान् । अन्यान् अन्यान् अप्य् अनन्यान् वीचीन् अब्धिर् इवात्मनि