प्रातस् तत्र सभास्थाने माम् अपृच्छद् असौ नृपः । कथम् एष मुने स्वप्नः प्रत्यक्ष इति विस्मितः
यथावस्तु मया तस्य तत्तद्युक्त्या स तादृशः । संशयो हृदयान् नुन्नो वातेनेवाम्बुदोदयः
इतीयं राघवाविद्या महती भ्रमदायिनी । असत् सत्तां नयत्य् आशु सच् चासत्तां नयत्य् अलम्
कथम् एवं वद ब्रह्मन् स्वप्नस् सत्यत्वम् आगतः । भ्रमभार इवैषो ऽर्थो न मे लगति चेतसि
सर्वम् एतद् अविद्यायां सम्भवत्य् एव राघव । घटेषु पटता दृष्टा स्वप्नसम्भ्रमणादिवत्
दूरं निकटवद् भाति मकुरे ऽन्तर् इवाचलः । चिरं शीघ्रत्वम् आयाति यूनस् सेष्टेव यामिनी
असम्भवं सम्भवति स्वप्ने स्वमरणं यथा । असच् च सद् इवोदेति स्वप्नेष्व् इव नभोगतिः
सुस्थिरं सुष्ठु चलति भ्रमे भूमिविवर्तवत् । अबलो बलम् आयाति मदविक्षुब्धचित्तवत्
वासनावलितं चेतो यद् यथा भावयत्य् अलम् । तत् तथानुभवत्य् आशु न सद् अस्ति न चाप्य् असत्
यदैवाभ्युदिताविद्या त्व् अहन्तादिमयी मुधा । तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता
प्रतिभासवशाद् एव सर्वं विपरिवर्तते । क्षणः कल्पत्वम् आयाति कल्पश् च भवति क्षणः
विपर्यस्तमतिर् जन्तुः काम् अवस्थां न वापतेत् । बिभर्ति सिंहताम् एणो वासनावशतस् स्वयम्
विषभ्रममदाविद्यामोहाहन्तादयस् समाः । सर्वे चित्तविपर्यासात् फलसम्पत्तिहेतवः
काकतलीयवच् चेतोवासनावशतस् स्वतः । संविशन्ति महारम्भा व्यवहाराः परस्परम्
वृत्तं प्राक् पक्कणे राज्ञः कस्यचिल् लवणस्य यत् । प्रतिभातं तद् एतस्य सद् वासद् वा मनोगतम्
विस्मरत्य् अपि विस्तीर्णां क्रियां चेतःकृतां यथा । तथा कृताम् अप्य् अकृताम् इति स्मरति निश्चितम्
तथाप्य् अभुक्तवान् अस्मि भुक्तवान् इति वेत्ति हि । स्वप्ने देशान्तरगमश् चाकृतो ऽप्य् अवबुध्यते
विन्ध्यपुक्कसक्तग्रामव्यवहारो ऽयम् ईदृशः । प्रतिभासागतस् तस्य स्वप्ने पूर्वकथा यथा
अथ वा लवणेनाशु दृष्टो यस् स्वप्नविभ्रमः । स एव संविदं प्राप्तो विन्ध्यपुक्कसचेतसः
विन्ध्यपुक्कससंविद् वारूढा पार्थिवचेतसि । यथा बहूनां सदृशं वचनं नाम चाननम्
तथा स्वप्नो ऽपि भवति कालो देशः क्रियापि च । व्यवहारगतेस् त्व् अस्यास् सत्तास्ति प्रतिभासतः
सत्ता सर्वपदार्थानां नान्या संवेदनाद् ऋते । संवेदने ऽन्तर् आभाति विचित्रा सर्गसन्ततिः
भूतभव्यभविष्यत्स्था तरुबीजे तरुर् यथा । तस्यास् सत्त्वम् असत्त्वं च न सन् नासद् इति स्थितम्
सत् सद् एव हि संवित्तेर् असंवित्तेर् न सन्मयम् । नाविद्या विद्यते किञ्चित् तैलादि सिकतास्व् इव
हेम्नः किं कटुकत्वं तद् अन्यत् स्याद् धेमतां विना । अविद्ययात्मनो ऽच्छस्य सम्बन्धो नोपपद्यते
सम्बन्धस् सदृशानां यस् स स्फुटस् सो ऽनुभूतिदः । जतुकाष्ठादिसम्बन्धो यस् स नो समयोर् अतः
नान्योऽन्यानुभवात्मासौ तद् एकास्पदमात्रकम् । परमार्थमयं सर्वं यदा तेनोपलादयः
चिता समभिचेत्यन्ते सम्बन्धवशतस् समात् । यदा चिन्मात्रसन्मात्रमयास् सर्वे जगद्गताः
भावास् तदा विभान्त्य् एते मिथस् स्वानुभवस्थितौ । न सम्भवति सम्बन्धो विषमाणां निरन्तरः
न परस्परसम्बन्धाद् विनानुभवनं मिथः । सदृशे सदृशं वस्तु क्षणाद् गत्वैकताम् अलम्