सुतापि नीता सह तेन भर्त्रा यमेन यास्या यमुना समाना । तमालवल्ली सहपुष्पगुच्छा समीरणेनेव वनेचरेण
हा पुत्रि गुञ्जाफलदामहारे समुन्नताभोगपयोधराङ्गि । वातोल्लसत्कज्जलनीलवर्णे पर्णाम्बरे ऽबाधरजे ऽम्बुदन्ते
हा राजपुत्रेन्दुसमान कान्त सन्त्यज्य शुद्धान्तविलासिनीस् ताः । रतिं प्रयातो ऽसि ममात्मजायां न सापि ते सुस्थिरताम् उपेता
संसारनद्यास् स्वतरङ्गभङ्गैः क्रियाविलासैर् विहितोपहासैः । किं नाम तुच्छं न कृतं नृपो ऽसौ यद् योजितः पुक्कसकन्यकायाम्
सा त्रस्तसारङ्गसमाननेत्रा स तृप्तशार्दूलसमानवीर्यः । उभौ गताव् एकपदेन नाशम् आशा सहार्थेन यथा च हेम
मृतेश्वरास्म्य् अस्तमितात्मजास्मि दुर्देशयातास्मि च दुर्गतास्मि । दुर्जातजातास्मि महापदास्मि साक्षात् स्वयं वोन्नमितापदास्मि
नीचावमानप्रभवस्य मन्योः क्षुधावसन्नस्य कलत्रकस्य । शोकस्य वेगाद् अनिवार्यवृत्तेर् नार्यस् सदैकायतनं विनाथाः
दैवोपतप्तस्य विबान्धवस्य मूढस्य रूढस्य महाधिभूमौ । यत् प्राणनं तन् मरणं महापद् या स्यान् मृतिर् जीवितम् उत्तमं तत्
जनैर् विहीनस्य विदेशवृत्तेर् दुःखान्य् अनन्तानि समुल्लसन्ति । सहस्रशाखारससङ्कुलानि तृणानि वर्षास्व् इव पर्वतस्य
एवं लपन्तीं स्वकलत्रवृद्धां दासिभिर् आश्वास्य नृपस् स्त्रियं ताम् । पप्रच्छ किं वृत्तम् इहासि का च का ते सुता कश् च पतिस् तवेति
उवाच सोद्बाष्पविलोचनाथ ग्रामस् त्व् अयं पुक्कसघोषनामा । इहाभवत् पुक्कसकः पतिर् मे बभूव तस्येन्दुसमा सुतैका
सा दैवयोगात् पतिम् इन्दुतुल्यम् इहागतं दैववशेन भूपम् । शून्ये विशीर्णं मधुकुम्भम् आप वने वराकी करभी यथैका
सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयां सुतांश् च । वृद्धिं गता काननकोटरे ऽस्मिंस् तुम्बीलता पादपसंवृतेव
केनचित् त्व् अथ कालेन ग्रामके ऽस्मिञ् जनेश्वर । अवृष्टिदुःखम् अभवद् भीषणं भग्नमानवम्
महतानेन दुःखेन सर्वे ते ग्रामकाज् जनाः । विनिर्गत्य गता दूरं तत्र पञ्चत्वम् आगताः
तेनेमा दुःखभागिन्यश् शून्या वयम् इह प्रभो । शोच्याश् शोचाम उद्बाष्पम् आचान्तेक्षणवारयः
इत्य् आकर्ण्याङ्गनावक्त्राद् राजा विस्मयम् आगतः । मन्त्रिणां मुखम् आलोक्य चित्रार्पित इवाभवत्
भूयो विचारयाम् आस तद् आश्चर्यम् अनुत्तमम् । भूयो भूयश् च पप्रच्छ बभूवाश्चर्यवान् अति
तेषां समुचितैर् मानसम्मानैर् दुःखसङ्क्षयम् । कृत्वा करुणयाविद्धो दृष्टलोकपरावरः
स्थित्वा तत्र चिरं कालं विमृश्य नियतेर् गतीः । आजगाम पुरं पौरैर् वन्दितः प्रविवेश च
प्रातस् तत्र सभास्थाने माम् अपृच्छद् असौ नृपः । कथम् एष मुने स्वप्नः प्रत्यक्ष इति विस्मितः
यथावस्तु मया तस्य तत्तद्युक्त्या स तादृशः । संशयो हृदयान् नुन्नो वातेनेवाम्बुदोदयः
इतीयं राघवाविद्या महती भ्रमदायिनी । असत् सत्तां नयत्य् आशु सच् चासत्तां नयत्य् अलम्
कथम् एवं वद ब्रह्मन् स्वप्नस् सत्यत्वम् आगतः । भ्रमभार इवैषो ऽर्थो न मे लगति चेतसि
सर्वम् एतद् अविद्यायां सम्भवत्य् एव राघव । घटेषु पटता दृष्टा स्वप्नसम्भ्रमणादिवत्
दूरं निकटवद् भाति मकुरे ऽन्तर् इवाचलः । चिरं शीघ्रत्वम् आयाति यूनस् सेष्टेव यामिनी
असम्भवं सम्भवति स्वप्ने स्वमरणं यथा । असच् च सद् इवोदेति स्वप्नेष्व् इव नभोगतिः
सुस्थिरं सुष्ठु चलति भ्रमे भूमिविवर्तवत् । अबलो बलम् आयाति मदविक्षुब्धचित्तवत्
वासनावलितं चेतो यद् यथा भावयत्य् अलम् । तत् तथानुभवत्य् आशु न सद् अस्ति न चाप्य् असत्
यदैवाभ्युदिताविद्या त्व् अहन्तादिमयी मुधा । तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता