ईषद्विदन् स्वयं चित्त्वाद् अन्यताम् इव पश्यति । बुध्यते सर्ग इत्य् एव शमाच् छाम्यति शाश्वतम्
सर्गस् तु परमार्थस्य सञ्ज्ञेत्य् एव विनिश्चयः । न नास्ति नायम् अस्त्य् अन्तर् अम्बरस्य यथाम्बरम्
चित्त्वात् सर्गसमापत्तिर् अचित्त्वात् सर्गसङ्क्षयः । परे परमं संशान्ते हेम्नीव कटकभ्रमः
सन्न् एव सर्गो ऽसर्गत्वम् एति वित्त्वशमोदये । असत् सत्ताम् अवाप्नोति स्वतस् संवेदनोदये
संवेदनम् अहम्भावसर्गसम्भवसम्भ्रमः । असंवेदनम् आशान्तं परं विद्धि न तज् जडम्
नानेन सर्गो नानायं ज्ञास्यैकात्मा शिवात्मकः । पुस्तकर्मकृता सेना मृण्मयी शिल्पिनां यथा
इदं पूर्णम् अनारम्भम् अनन्तम् अनवोदयम् । पूर्णे पूर्णं परापूरैः पूर्वम् एवावतिष्ठते
यद् अयं लक्ष्यते सर्गस् तद् ब्रह्म ब्रह्मणि स्थितम् । नभो नभसि विश्रान्तं शान्तं शान्ते शिवं शिवे
मकुरप्रतिबिम्बस्थे नगरे नगरं जने । यथा दूरम् अदूरं च तथेशे तदतत्क्रमः
असद् अभ्युत्थितं विश्वं सद् अप्य् अभ्युदितं सदा । प्रतिभासात् सदाभासम् अवस्तुत्वाद् असन्मयम्
आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे । द्विचन्द्रविभ्रमाभासे सर्गे ऽस्मिन् केव सत्यता
मायाचूर्णपरिक्षेपाद् यथा व्योम्नि पुरभ्रमः । तथा संविदि संसारस् सारो ऽसारश् च भासते
यावद् विचारदहनेन समूलदाहं दग्धा न जर्जरलतेव बलाद् अविद्या । शाखाप्रतानगहना गहनानि तावन् नानाविधानि सुखदुःखवनानि सूते
हेमोर्मिकादिवन् मिथ्या कचितायाः क्षयोन्मुखम् । त्वम् अहन्त्वम् अविद्यायाश् शृणु राघव कीदृशम्
लवणो ऽसौ महीपालस् तदा दृष्ट्वा तथा भ्रमम् । द्वितीये दिवसे गन्तुं प्रवृत्तस् तां महाटवीम्
यत् तद् दृष्टं मया दुःखम् अरण्यानीं स्मरामि ताम् । चित्तादर्शगता चित्त्वात् कदाचिल् लभ्यते च सा
इति निश्चित्य सचिवैस् स ययौ दक्षिणापथम् । पुनर् दिग्विजयायैव प्राप विन्ध्यमहीधरम्
पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् । बभ्राम कौतुकात् सर्वां व्योमवीथीम् इवोष्णरुक्
अथैकस्मिन् प्रदेशे तां भित्ताव् इव पुरोगताम् । ददर्शोग्राम् अरण्यानीं परलोकमहीम् इव
सर्वत्र विहरंस् तांस् तान् वृत्तान्तान् सकलान् अपि । दृष्टवान् दृष्टवांश् चैव ज्ञातवांश् च विसिस्मये
तान् परिज्ञातवांश् चासीद् व्याधान् पुक्कसजान् पुरः । विस्मयाकुलया बुद्ध्या भूयो बभ्राम सम्भ्रमी
अथ प्राप महाटव्याः पर्यन्ते धूमधूसरम् । तम् एव ग्रामकं यस्मिन् सो ऽभवत् पुष्टपुक्कसः
तत्रापश्यज् जनांस् तांस् तांस् स्त्रियस् तास् ताः कुटीरिकाः । तान् आरामाञ् जलाधारांस् तांस् तांश् च वसुधातटान्
तं चाकाण्डपरिभ्रंशं तान् वृक्षांस् तान् वृतिव्रजान् । तांस् तथैव समुद्देशांस् तद्वृत्तान्तैकलाञ्छितान्
अन्यासु वृद्धासु सबाष्पनेत्रास्व् आर्त्याभियुक्तासु च वर्णयन्ती । अकालकान्तारविशीर्णबन्धुदुःखान्य् असङ्ख्यानि सखी सखीषु
वृद्धा प्रवृद्धोज्ज्वलबाष्पानेत्र कन्थावृता शुष्ककुचा कृशाङ्गी । अवग्रहोग्राशनिदग्धदेशे तत्रान्तरान्ता परिरोदितीयम्
हा पुत्र पुत्रावृतसर्वगात्र दिनत्रयाभोजनजर्जराङ्ग । कृत्तेशुना चर्मणि जीर्णदेहात् कथं क्व मुक्ता भवतासवस् ते
तालीलतालम्बनम् अम्बुदार्द्रदन्तान्तरस्थारुणसत्फलस्य । स्मरामि गुञ्जाफलदामहेतोः पुरस् स्ववध्वा रसहासिनस् ते
कदम्बजम्बीरलवङ्गगुञ्जकुञ्जान्तर् अत्रस्ततरत्तरक्षोः । पश्यामि पुत्रस्य कदा नु भूयो भयङ्कराण्य् आप्लुतिवल्गितानि
न तानि ताम्बूलविलासिनीनां मुखेषु शोभललितानि सन्ति । तमालनीले चिबुकैकदेशे सुतस्य यान्य् आस्यगतामिषस्य