यश् शुक्तौ रजताकारं प्रेक्षते रजतस्य सः । न सम्प्राप्नोत्य् अणुम् अपि कणं क्षीणम् अपि क्वचित्
अपर्यालोचनेनैव सद् इवासद् विराजते । यथा शुक्तौ रजतता जलं मरुमरीचिषु
यन् नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते । अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्व् इवाम्बुधीः
असद् एव च तत् कार्यकरं भवति च स्थिरम् । बालानां मरणायैव वेतालभ्रान्तिसङ्गमः
हेमतां वर्जयित्वैकां वर्तते हेम्नि नेतरत् । ऊर्मिकाकटकादित्वं तैलादि सिकतास्व् इव
नेहास्ति सत्यं नो मिथ्या यद् यथा प्रतिभासते । तत् तथार्थक्रियाकारि बालयक्षविकारवत्
सद् वा भवत्व् असद् वापि सुदृढं हृदये तु यत् । तत् तद् अर्थक्रियाकारि विषस्येवामृतक्रिया
परमैव हि साविद्या मायैषा संसृतिर् ह्य् असौ । असतो निष्प्रतिष्ठस्य यदाहन्त्वस्य भावनम्
हेम्न्य् अस्ति नोर्मिकादित्वम् अहन्ताद्य् अस्ति नात्मनि । अहन्त्वाभावतस् त्व् एवं स्वच्छे शान्ते समे परे
न सनातनता काचिन् न च काचिद् विरिञ्चता । न च ब्रह्माण्डता काचिन् न च काचित् सुरादिता
न लोकान्तरता काचिन् न च सर्गादिता क्वचित् । न मेरुता नाम्बरता न मनस्ता न देहता
न महाभूतता काचिन् न च कारणता क्वचित् । न चर्तुकालकलना न भावाभाववस्तुता
त्वत्ताहन्तात्मता तत्ता सत्तासत्ता न काश्चन । न क्वचिद् भेदकलना न भावाभावरञ्जना
सर्वं शान्तं निरालम्भं ज्ञम् अच्छं शाश्वतं शिवम् । अनामयम् अनाभासम् अनामकम् अकारणम्
न सन् नासन् न मध्यान्तं न सर्वं सर्वम् एव च । मनोवचोभिर् अग्राह्यं शून्याशून्यं सुशाश्वतम्
अवबुद्धं महाब्रह्मन् सर्वम् एतन् मयाधुना । तथापि भूयः कथय सर्गः किम् अवलोक्यते
परे शान्तं परं नाम स्थितम् इत्थम् इदन्तया । नेह सर्गो न सर्गाख्या काचनास्ति कदाचन
महार्णवाम्भसीवाम्बु संस्थितं परमे पदे । जलं द्रवत्वात् स्पन्दीव निस्स्पन्दं परमं पदम्
भास्वात्मनीव कचति न कचच् चैव तत् पदम् । भासते कचनं भासां परं त्व् अकचनं विदुः
अध ऊर्ध्वं वर्जयित्वा यथाब्धेर् उदरे पयः । स्फुरत्य् एवं परे चित्त्वाद् इदं नानेव तत्परम्
ईषद्विदन् स्वयं चित्त्वाद् अन्यताम् इव पश्यति । बुध्यते सर्ग इत्य् एव शमाच् छाम्यति शाश्वतम्
सर्गस् तु परमार्थस्य सञ्ज्ञेत्य् एव विनिश्चयः । न नास्ति नायम् अस्त्य् अन्तर् अम्बरस्य यथाम्बरम्
चित्त्वात् सर्गसमापत्तिर् अचित्त्वात् सर्गसङ्क्षयः । परे परमं संशान्ते हेम्नीव कटकभ्रमः
सन्न् एव सर्गो ऽसर्गत्वम् एति वित्त्वशमोदये । असत् सत्ताम् अवाप्नोति स्वतस् संवेदनोदये
संवेदनम् अहम्भावसर्गसम्भवसम्भ्रमः । असंवेदनम् आशान्तं परं विद्धि न तज् जडम्
नानेन सर्गो नानायं ज्ञास्यैकात्मा शिवात्मकः । पुस्तकर्मकृता सेना मृण्मयी शिल्पिनां यथा
इदं पूर्णम् अनारम्भम् अनन्तम् अनवोदयम् । पूर्णे पूर्णं परापूरैः पूर्वम् एवावतिष्ठते
यद् अयं लक्ष्यते सर्गस् तद् ब्रह्म ब्रह्मणि स्थितम् । नभो नभसि विश्रान्तं शान्तं शान्ते शिवं शिवे
मकुरप्रतिबिम्बस्थे नगरे नगरं जने । यथा दूरम् अदूरं च तथेशे तदतत्क्रमः
असद् अभ्युत्थितं विश्वं सद् अप्य् अभ्युदितं सदा । प्रतिभासात् सदाभासम् अवस्तुत्वाद् असन्मयम्