राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनान् आश्रमाञ् शुभान्
भूयो भूयस् स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान्
अमरकिन्नरमानवमानितस् समवलोक्य महीम् अखिलाम् इमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकम् इवेश्वरः
लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः । स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा
प्रणनामाथ पितरं वसिष्ठं मातृबान्धवान् । ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः
सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च । मुहुरालिङ्गनाचारै राघवो न ममौ तदा
तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः । जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव
बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः । महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः
उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन् विविधाचारान् देशाचारान् इतस् ततः
प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा
कथाभिस् सुविचित्राभिस् स वसिष्ठादिभिस् सह । स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः
जगाम पित्रनुज्ञातो महत्या सेनयावृतः । वराहमहिषाकीर्णं वनम् आखेटकेच्छया
तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् । समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम्
एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः । आगत्य तीर्थयात्रायास् समुवास पितुर् गृहे
नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकया तथा । परिनिनाय दिनानि स चेष्टया श्रुतसुधारसपेशलयानघः
अथोनषोडशे वर्षे वर्तमाने रघूद्वहे । रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणे ऽपि च
भरते संस्थिते नित्यं मातामहगृहे सुखम् । पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम्
जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः । कृतमन्त्रे महाप्रज्ञे तज्ज्ञे दशरथे नृपे
कृतायां तीर्थयात्रायां रामो निजगृहस्थितः । जगामानुदिनं कार्श्यं शरदीवामलं सरः
क्रमाद् अस्य विशालाक्षं पाण्डुतां मुखम् आदधे । पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम्
कपोलतलसंलीनपाणिः पद्मासनस्थितः । चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः
कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः । नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः
खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः । चकाराह्निकम् आचारं परिम्लानमुखाम्बुजः
एवं मुनिविशिष्टं तं रामं गुणगणाकरम् । आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम्
तथा तेषु तनूजेषु खेदवत्सु कृशेषु च । सपत्नीको महीपालश् चिन्ताविवशतां ययौ
का ते पुत्र घना चिन्तेत्य् एवं रामं पुनः पुनः । अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः
न किञ्चित् तात मे दुःखम् इत्य् उक्त्वा पितुर् अङ्कगः । रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति
ततो दशरथो राजा रामः किं खेदवान् इति । अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम्
अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते । इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः
कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः । सर्गेण संहतिजवेन विना जगत्यां भूतानि भूप न महान्ति विकारयन्ति