शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर् या प्रोच्यते सा विचारणा
विचारणाशुभेच्छाभ्याम् इन्द्रियार्थेष्व् अरक्तता । यत्राशातनुताभावात् प्रोच्यते तनुमानसा
भूमिकात्रितयाभ्यासाच् चित्ते ऽर्थविरतेर् वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर् उदाहृता
दशाचतुष्टयाभ्यासाद् असंसङ्गफलेन वै । रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका
भूमिकापाञ्चकाभ्यासात् स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानाम् अभावनात्
परप्रयुक्तेन चिरं प्रयत्नेनार्थबोधनात् । पदार्थाभावनानाम्नी षष्ठी सञ्जायते गतिः
भूमिषट्कचिराभ्यासाद् भेदस्यानुपलम्भतः । यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते । विदेहमुक्तविषयं तुर्यातीतम् अतः परम्
ये हि नाम महाभागास् सप्तमीं भूमिकाम् इताः । आत्मारामा महात्मानस् ते महत् पदम् आगताः
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थितौ । प्राकृतेनार्यकार्येण किंचित् कुर्वन्ति वा न वा
पार्श्वस्था बोधितास् सन्तस् सर्वाचारे क्रमागतम् । आचारम् आचरन्त्य् एव सुप्तबुद्धवद् अक्षताः
आत्मारामतया तांस् तास् सुखयन्ति न काश्चन । जगत्क्रियास् सुसंसुप्तान् रूपालोकश्रियो यथा
भूमिकासप्तकं त्व् एतद् धीमताम् एव गोचरम् । न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम्
प्राप्ता ज्ञानदशाम् एतां पशुम्लेच्छादयो ऽपि ये । सदेहा वाप्य् अदेहा वा ते मुक्ता नात्र संशयः
ज्ञप्तिर् हि ग्रन्थिविच्छेदस् तस्मिन् सति विमुक्तता । मृगतृष्णाम्बुबुद्ध्यादिशान्तिमात्रात्मकस् त्व् असौ
ये तु मोहाद् घनात् तीर्णा न प्राप्ताः पावनं पदम् । ते स्थिता भूमिकास्व् आसु स्वात्मलाभपरायणाः
सर्वभूमिगताः केचित् केचिद् आन्तैकभूमिकाः । भूमित्रयगताः केचित् केचित् पञ्चमभूगताः
भूमिषट्कगताः केचित् केचित् सार्धैकभूमिकाः । भूचतुष्टयगाः केचित् केचिद् भूमिद्वये स्थिताः
भूम्यंशभाजनाः केचित् केचित् सार्धत्रिभूमिकाः । केचित् सार्धचतुर्भूकास् सार्धषड्भूमिकाः परे
विवेकिनो नरा लोके चरन्त इति भूमिषु । गृहायतनतापस्य दशावेशेषु संस्थिताः
ते हि धीरास् सुराजानो दशास्व् आसु जयन्ति ते । तृणायते तु दिग्दन्तिघटाभटपराजयः
एतासु भूमिषु जयन्ति हि ये महान्तो वन्द्यास् त एव हि जितेन्द्रियशात्रवास् ते । सम्राड् विराड् अपि च यत्र तृणायते तत् स्फारं पदं झगिति ते समवाप्नुवन्ति
ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् । विरौति नाहं हेमेति वृथात्माहन्तया तथा
ऊर्मिकासंविदुदयः कथं हेम्नो महामुने । अहम्भावात्मक इति यथावद् ब्रूहि मे प्रभो
सत एवागमापायौ प्रष्टव्यौ नासतस् सदा । अहन्त्वम् ऊर्मिकात्वं च सती तु न कदाचन
हेम देह्य् ऊर्मिकात्वं त्वं गृहाणेत्य् उदिते यदि । तद् दीयते सोर्मिकेण तत् तद् अस्ति न संशयः
एवं चेत् तत् प्रभो ऽत्र स्याद् ऊर्मिकात्वं तु कीदृशम् । अनयैवार्थविच्छित्त्या ज्ञास्यामि ब्रह्मणो वपुः
रूपं राघव नीरूपम् असतश् चेन् निरूप्यते । तद् वन्ध्यातनयाकारगुणान् मे त्वम् उदाहर
ऊर्मिकात्वं मुधा भ्रान्तिर् मायेवासत्स्वरूपिणी । रूपं तद् एतद् एवास्याः प्रेक्षिता यन् न दृश्यते
मृगतृष्णाम्भसि द्वीन्दाव् अहन्तारुचकादिषु । एतावद् एव रूपं यत् प्रेक्ष्यमाणं न लक्ष्यते