अल्पकालं मया दृष्टम् एतन् नो सत्यम् इत्य् अपि । निद्राकालानुभूते ऽर्थे निद्रान्ते प्रत्ययो हि यः
स स्वप्नः कथितस् तस्य महाजाग्रत् स्थितं हृदि । चिरसन्दर्शनाभावाद् अप्रफुल्तबृहद्वपुः
स्वप्नो जाग्रत्तयारूढो महाजाग्रत्पदं गतः । यत् क्षते वाक्षते देहे स्वप्नजाग्रन् मतं हि तत्
षडवस्थापरित्यागे जडजीवस्य या स्थितिः । भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः
एते तस्याम् अवस्थायां तृणलोष्टशिलादयः । पदार्थास् संस्थितास् सर्वे पुरापाश्चात्यनूतनाः
सप्तावस्था इति प्रोक्ता मयाज्ञानस्य राघव । एकैका शतशाखात्र नानाविभवरूपिणी
जाग्रत्स्वप्नश् चिरं रूढो जाग्रत्ताम् एव गच्छति । नानापदार्थभेदेन स विकासं विजृम्भते
अस्याश् चाप्य् उदरे सन्ति महाजाग्रद्दशादृशः । तासाम् अप्य् अन्तर् अन्याश् च सन्त्य् एवं संसृतिर् घना
सुषुप्तस्वप्नकलने आस्व् अन्तरदशास्व् अपि । स्थिते तेनायम् अखिलस् स्थितो मोहश् शिलाघनः
स्वप्नात् स्वप्नान्तरं लोको मोहान् मोहान्तरं व्रजेत् । अधःपातिजलावर्त इव याति जलान्तरम्
काश्चित् संसृतयो दीर्घस्वप्नजाग्रत्तया स्थिताः । काश्चित् पुनःपुनस् स्वप्ना जाग्रत्स्वप्नास् तथेतराः
अज्ञानभूमिर् इति सप्तपदा मयोक्ता नानाविकारदपदान्तरभेदभिन्ना । अस्यास् समुत्तरसि चारुविचारणाभिर् दृष्टे प्रबोधविमले स्वयम् आत्मनीति
इमां सप्तपदां ज्ञानभूमिम् आकर्णयानघ । न यया ज्ञातया मोहपङ्के भूयो निमज्जसि
वदन्ति बहुभेदेन वादिनो योगभूमिकाः । मम त्व् अभिमता नूनम् इमा एव शुभप्रदाः
अवबोधं विदुर् ज्ञानं तद् इदं साप्तभूमिकम् । मुक्तिस् तज् ज्ञेयम् इत्य् उक्ता भूमिका सप्तकात् परम्
सत्यावबोधो मोक्षश् चैवेति पर्यायनामनी । सत्यबोधेन जीवो ऽयं नेह भूयः प्ररोहति
ज्ञानभूमिश् शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीयात्र तृतीया तनुमानसा
सत्त्वापत्तिश् चतुर्थी स्यात् ततो ऽसंसक्तिनामिका । पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता
आसाम् अन्ते स्थिता मुक्तिस् तस्यां भूयो न शोचते । एतासां भूमिकानां त्वम् इदं निर्वचनं शृणु
स्थितः किं मूढ एवास्मि प्रेक्षे ऽहं शास्त्रसज्जनम् । वैराग्यपूर्वम् इच्छेति शुभेच्छेत्य् उच्यते बुधैः
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर् या प्रोच्यते सा विचारणा
विचारणाशुभेच्छाभ्याम् इन्द्रियार्थेष्व् अरक्तता । यत्राशातनुताभावात् प्रोच्यते तनुमानसा
भूमिकात्रितयाभ्यासाच् चित्ते ऽर्थविरतेर् वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर् उदाहृता
दशाचतुष्टयाभ्यासाद् असंसङ्गफलेन वै । रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका
भूमिकापाञ्चकाभ्यासात् स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानाम् अभावनात्
परप्रयुक्तेन चिरं प्रयत्नेनार्थबोधनात् । पदार्थाभावनानाम्नी षष्ठी सञ्जायते गतिः
भूमिषट्कचिराभ्यासाद् भेदस्यानुपलम्भतः । यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते । विदेहमुक्तविषयं तुर्यातीतम् अतः परम्
ये हि नाम महाभागास् सप्तमीं भूमिकाम् इताः । आत्मारामा महात्मानस् ते महत् पदम् आगताः
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थितौ । प्राकृतेनार्यकार्येण किंचित् कुर्वन्ति वा न वा