राजसूयक्रियाकर्तुस् तस्य दत्त्वा महापदम् । अगच्छत् स्वनभोमार्गं सुरसिद्धनिषेवितम्
भावराशिस् तथा बोधे सर्वो यात्य् एकपिण्डताम् । विचित्रमृद्भाण्डगणो यथापक्वो जले स्थितः
कीदृश्यो भगवन् योगभूमिकास् सप्त सिद्धिदाः । समासेनेति मे ब्रूहि सर्वतत्त्वविदां वर
अज्ञानभूस् सप्तपदा ज्ञभूस् सप्तपदैव च । पदान्तराण्य् असङ्ख्यानि भवन्त्य् अन्यान्य् अथैतयोः
स्वयत्नमाधवरसान् महासत्तातरौ लते । एते प्रतिपदं बद्धमूले स्वं फलतः फलम्
तत्र सप्तप्रकारत्वं त्वम् अज्ञानभुवश् शृणु । ततस् सप्तप्रकारत्वं श्रोष्यसि ज्ञानभूमिजम्
स्वरूपावस्थितिर् मुक्तिस् तद्भ्रंशो ऽहन्त्ववेदनम् । एतत् सङ्क्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम्
शुद्धचिन्मात्रसंवित्तेस् स्वरूपान् न चलन्ति ये । रागद्वेषोदयाभावात् तेषां नाज्ञत्वसम्भवः
यत् स्वरूपपरिभ्रंशश् चेत्यार्थपरिमज्जनम् । एतस्माद् अपरो मोहो न भूतो न भविष्यति
अर्थाद् अर्थान्तरं चित्ते याते मध्ये हि या स्थितिः । निरस्तमननाङ्कासौ स्वरूपस्थितिर् उच्यते
संशान्तसर्वसङ्कल्पं या शिलान्तरवत् स्थितिः । जाड्यनिद्रादिनिर्मुक्ता सा स्वरूपस्थितिस् स्मृता
अहन्तादाव् अलं शान्ते भेदे निस्स्पन्दचित्तता । अजडा यत् प्रतपति तत् स्वरूपम् इति स्मृतम्
बीजजाग्रत् तथा जाग्रन् महाजाग्रत् तथैव च । जाग्रत्स्वप्नस् तथा स्वप्नस् स्वप्नजाग्रत् सुषुप्तकम्
इति सप्तविधो मोहः पुनर् एष परस्परम् । श्लिष्टो भवत्य् अनेकाख्यं शृणु लक्षणम् अस्य च
प्रथमं चेतनं यत् स्याद् अनाख्यं निर्मलं चितः । भविष्यच्चितिजीवादिनामशब्दार्थभाजनम्
बीजरूपं स्थितं जाग्रद् बीजजाग्रत् तद् उच्यते । एषा ज्ञप्तेर् नवावस्था त्वं जाग्रत्संस्थितिं शृणु
एवं प्रसूतस्य पराद् अयं चाहम् इदं मम । इति यः प्रत्ययस् स्वच्छस् तज् जाग्रत् प्रागभावना
अयं सो ऽहम् इदं तन् मे इति जन्मान्तरोदितः । पीवरः प्रत्ययः प्रोक्तं महाजाग्रद् इति स्फुरत्
अरूढम् अथ वारूढम् अनिद्रम् अबहिर्मयम् । यज् जाग्रतो मनोराज्यं जाग्रत्स्वप्नस् स उच्यते
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः । अभ्यासं प्राप्य जाग्रत्त्वं तद् अनेकविधं भवेत्
अल्पकालं मया दृष्टम् एतन् नो सत्यम् इत्य् अपि । निद्राकालानुभूते ऽर्थे निद्रान्ते प्रत्ययो हि यः
स स्वप्नः कथितस् तस्य महाजाग्रत् स्थितं हृदि । चिरसन्दर्शनाभावाद् अप्रफुल्तबृहद्वपुः
स्वप्नो जाग्रत्तयारूढो महाजाग्रत्पदं गतः । यत् क्षते वाक्षते देहे स्वप्नजाग्रन् मतं हि तत्
षडवस्थापरित्यागे जडजीवस्य या स्थितिः । भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः
एते तस्याम् अवस्थायां तृणलोष्टशिलादयः । पदार्थास् संस्थितास् सर्वे पुरापाश्चात्यनूतनाः
सप्तावस्था इति प्रोक्ता मयाज्ञानस्य राघव । एकैका शतशाखात्र नानाविभवरूपिणी
जाग्रत्स्वप्नश् चिरं रूढो जाग्रत्ताम् एव गच्छति । नानापदार्थभेदेन स विकासं विजृम्भते
अस्याश् चाप्य् उदरे सन्ति महाजाग्रद्दशादृशः । तासाम् अप्य् अन्तर् अन्याश् च सन्त्य् एवं संसृतिर् घना
सुषुप्तस्वप्नकलने आस्व् अन्तरदशास्व् अपि । स्थिते तेनायम् अखिलस् स्थितो मोहश् शिलाघनः
स्वप्नात् स्वप्नान्तरं लोको मोहान् मोहान्तरं व्रजेत् । अधःपातिजलावर्त इव याति जलान्तरम्