अप्रबुद्धं मनो नानासञ्ज्ञाकल्पितकल्पनम् । वृत्तीर् अनुपतच् चित्रा विचित्राकृतितां गतम्
अप्रबुद्धम् भवेद् यावन् निद्रान्तं तावद् एव हि । सम्भ्रमं पश्यति स्वप्ने न प्रबुद्धः कदाचन
अज्ञाननिद्राकुलितो जीवो यावन् न बोधितः । तावत् पश्यति दुर्बोधं संसारारम्भविभ्रमम्
सम्प्रबुद्धस्य मनसस् तमस् सर्वं विलीयते । कमलस्य यथा ह्य् आन्ध्यं दिनालोकविकासिनः
चित्ताविद्यामनोजीववासनेति कृतात्मभिः । कर्मात्मेति च यः प्रोक्तस् स देही दुःखकोविदः
जडो देहो न दुःखार्हो दुःखी जीवो ऽविचारतः । अविचारो घनाज्ञानाद् अज्ञानं दुःखकारणम्
शुभाशुभानां धर्माणां जीवो विषयतां गतः । अविवेकैकदोषेण कोशे नेदं महापदम्
अविवेकामयोत्तब्धं मनो विविधवृत्तिमत् । नानाकारविहारेण परिभ्रमति चक्रवत्
उदेति रौति हन्त्य् अत्ति याति वल्गति नन्दति । मन एव शरीरे ऽस्मिन् न शरीरं कदाचन
यथा गृहपतिर् गेहे रथे वा सारथिर् यथा । यथा भुजङ्गो भस्त्रायां शरीरे ऽस्मिंस् तथा मनः
अचले चञ्चलाकारः पादपे पवनो यथा । स्फुरत्य् एवं मनो देहे स्थितो देहो न चेतसि
सर्वेषु सुखदुःखेषु सर्वासु कलनासु च । मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम्
अत्र ते शृणु वक्ष्यामि वृत्तान्तम् इमम् अद्भुतम् । लवणो ऽसौ यथा यातश् चण्डालत्वं मनोभ्रमात्
मनः कर्मफलं भुङ्क्ते शुभं वाशुभम् एव वा । यथैतद् बुध्यसे नूनं तथाकर्णय राघव
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ । एकान्तैकोपविष्टेन चिन्तितं मनसा चिरम्
पितामहो मे सुमहान् राजसूयस्य याजकः । अहं तस्य कुले जातस् तं यजे मनसा मखम्
इति सञ्चिन्त्य मनसा कृत्वा सम्भारम् आदितः । राजसूयस्य दीक्षायां विवेश स महीपतिः
ऋत्विजश् चार्चयाम् आस पूजयाम् आस सन्मुनीन् । देवता वन्दयाम् आस ज्वालयाम् आस पावकम्
तस्येत्थं यजमानस्य मनस्य् उपवनान्तरे । ययौ संवत्सरस् साग्रो देवर्षिद्विजपूजया
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् । व्यबुध्यत दिनस्यान्ते स्वस्मिन्न् उपवने नृपः
एवं स लवणो राजा राजसूयम् अवाप्तवान् । मनसैव हि पुष्टेन युक्तस् तस्य फलेन च
अतश् चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः । तद् अनादाव् अनायासे सत्ये योजय राघव
पूर्णे चेतसि सम्पूर्णः पुमान् नष्टे विनश्यति । देहो ऽहम् इति येषां तु निश्चयस् तैर् अलं बुधैः
पूर्णे विवेकवति चेतसि सम्प्रबुद्धे दुःखान्य् अलं विगलितानि विविक्तबुद्धेः । भास्वत्करप्रकटिते ननु पद्मषण्डे सङ्कोचजाड्यतिमिराणि चिरं कृतानि
राजसूयफलं प्राप्तं लवणेन खिल प्रभो । प्रमाणं किम् इवात्र स्यात् कल्पनाजालशम्बरे
यदा शाम्बरिकः काले सम्प्राप्तो लावणीं सभाम् । तदाहम् अवसं तत्र तत् प्रत्यक्षेण दृष्टवान्
अहं सभ्यैस् ततस् तत्र गते शम्बरकारिणि । किम् एतद् इति यत्नेन पृष्टश् च लवणेन च
चिन्तयित्वा मया दृष्ट्वा तत्र यत् कथितं ततः । शृणु तत् ते प्रवक्ष्यामि राम शाम्बरिकेहितम्
राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् । आपद्दुःखं प्राप्नुवन्ति नानाकारदशामयम्
अतश् शक्रेण गगनाद् दुःखाय लवणस्य सः । प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः