संसारवासना चेतो यदि नाम न पूरयेत् । तज् जाग्रत्स्वप्नसंरम्भाः कं नयेयुर् इहापदम्
दृश्यन्ते रौरवावीचिनरकानर्थशासनाः । मिथ्याज्ञाने गते वृद्धिं स्वर्गोपवनभूमिषु
अनया वेधितं चेतो बिसतन्ताव् अपि क्षणात् । पश्यत्य् अखिलसंसारसागरावर्तविभ्रमम्
अनयोपहते चित्ते राज्य एव हि संस्थितः । तास् ता दशा जनो याति या न योग्याश् श्वपाकिनः
तस्माद् राम परित्यज्य वासनां भवबन्धनीम् । सर्वभावमयीं तिष्ठ नीरागस् स्फटिको यथा
तिष्ठतस् तव कार्येषु मास्तु रागानुरञ्जना । स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः
विगतकौतुकसङ्गसमिद्धया यदि करोषि सदैव हि लीलया । वरधिया जगति प्रकृतिक्रियास् तद् असि केन महान् उपमीयसे
एवम् उक्तो भगवता वसिष्ठेन महात्मना । रामः कमलपत्त्राक्ष उन्मीलित इवाबभौ
विकासितान्तःकरणश् शोभाम् अलम् उपाययौ । आश्वस्तस् तमसि क्षीणे पद्मो ऽर्कालोकवान् इव
बोधविस्मयसञ्जातसौम्यस्मितसिताननः । दन्तरश्मिसुधाधौताम् इमां वाचम् उवाच च
अहो नु चित्रं पद्मोत्थैर् बद्धास् तन्तुभिर् अद्रयः । अविद्यमाना याविद्या तया सर्वे वशीकृताः
इदं तद् वज्रतां यातं रूपम् अस्मिञ् जगत्त्रये । अविद्ययापि यन् नाम सद् एवासद् इव स्थितम्
अस्यास् संसारमायाया नट्यास् त्रिभुवनाङ्गने । रूपं सदवबोधार्थं कथयानुग्रहात् पुनः
अन्यच् च संशयो ऽयं मे महात्मन् हृदि वर्तते । लवणो ऽसौ महाभागः किं ताम् आपदम् आप्तवान्
संश्लिष्टयोर् अहतयोर् द्वयोर् वा देहदेहिनोः । ब्रह्मन् क इव संसारी शुभाशुभफलैकभुक्
लवणस्य तथा दत्त्वा ताम् आपदम् अनुत्तमाम् । किं गतश् चञ्चलारम्भः कश् चासाव् ऐन्द्रजालिकः
काष्ठकुड्योपमो देहो न किञ्चन इवानघ । स्वप्नालोक इवानेन चेतसा परिकल्प्यते
चेतस् तु जीवतां यातं चिच्छक्तिपरिरूषितम् । विद्धि संसारि सुमते कपिपोतकचञ्चलम्
चेतो हि कर्मभाग् देहे नानाकारं शरीरधृत् । अहङ्कारमनोजीवनामभिः परिकथ्यते
तस्येमान्य् अप्रबुद्धस्य सुप्रबुद्धस्य राघव । सुखदुखान्य् अनन्तानि न शरीरस्य कानिचित्
अप्रबुद्धं मनो नानासञ्ज्ञाकल्पितकल्पनम् । वृत्तीर् अनुपतच् चित्रा विचित्राकृतितां गतम्
अप्रबुद्धम् भवेद् यावन् निद्रान्तं तावद् एव हि । सम्भ्रमं पश्यति स्वप्ने न प्रबुद्धः कदाचन
अज्ञाननिद्राकुलितो जीवो यावन् न बोधितः । तावत् पश्यति दुर्बोधं संसारारम्भविभ्रमम्
सम्प्रबुद्धस्य मनसस् तमस् सर्वं विलीयते । कमलस्य यथा ह्य् आन्ध्यं दिनालोकविकासिनः
चित्ताविद्यामनोजीववासनेति कृतात्मभिः । कर्मात्मेति च यः प्रोक्तस् स देही दुःखकोविदः
जडो देहो न दुःखार्हो दुःखी जीवो ऽविचारतः । अविचारो घनाज्ञानाद् अज्ञानं दुःखकारणम्
शुभाशुभानां धर्माणां जीवो विषयतां गतः । अविवेकैकदोषेण कोशे नेदं महापदम्
अविवेकामयोत्तब्धं मनो विविधवृत्तिमत् । नानाकारविहारेण परिभ्रमति चक्रवत्
उदेति रौति हन्त्य् अत्ति याति वल्गति नन्दति । मन एव शरीरे ऽस्मिन् न शरीरं कदाचन
यथा गृहपतिर् गेहे रथे वा सारथिर् यथा । यथा भुजङ्गो भस्त्रायां शरीरे ऽस्मिंस् तथा मनः