जराजीर्णबकी यावत् कासक्रेङ्कारकारिणी । रौति रोगोरगाकीर्णा कायद्रुमशिरस्स्थिता
तावद् आगत एवाशु कुतो ऽपि परिदृश्यते । घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः
सायंसन्ध्या प्रजातैव तमस् समनुधावति । जरा वपुषि दृष्टैव मृतिं समनुधावति
जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः । मृतिभृङ्गी द्रुतं ब्रह्मन् नरस्यायाति सूत्सुका
शून्यं नगरम् आभाति भाति च्छिन्नलतो द्रुमः । भात्य् अनावृष्टिमान् देशो न जराजर्जरं वपुः
क्षणान् निगिरणायैव कासक्वणितकारिणी । गृध्रीवामिषम् आदत्ते तरसैव नरं जरा
दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणात् । प्रलुनाति जरा देहं कुमारी कैरवं यथा
सीत्कारकारिणी पांसुपरुषा परिजर्जरम् । शरीरं शातयत्य् एषा वात्येव तरुपल्लवम्
जरसोपहतो देहो धत्ते जर्जरतां गतः । तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम्
जराज्योत्स्नोदितैवेयं शिरश्शिखरिपृष्ठतः । विकासयति संरब्धवातां कासकुमुद्वतीम्
परिपक्वं समालोक्य जराक्षारविधूसरम् । शिरःकुष्माण्डकं भुङ्क्ते पुंसः कालः किलेश्वरः
जराजह्नुसुतोद्युक्ता मूलान्य् अस्य निकृन्तति । शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम्
जरामार्जारिका भुक्तयौवनाखुतयैधिता । परम् उल्लासम् आयाति शरीरामिषगर्धिनी
काचिद् अस्ति जगत्य् अस्मिन् नामङ्गलकरी तथा । यथा जराक्रोशकरी देहजङ्गलजम्बुकी
कासश्वासससीत्कारा दुःखधूमतमोमयी । जराज्वाला ज्वलत्य् एषा ययासौ दग्ध एव हि
जरसा वक्रताम् एति शुक्लावयवपल्लवा । तात तन्वी तनुर् नॄणां लता पुष्पानता यथा
जराकर्पूरधवलं देहकर्पूरपादपम् । मुने मरणमातङ्गो नूनम् उद्धरति क्षणात्
मरणस्य मुने राज्ञो जराधवलचामरा । आगच्छतो ऽग्रे निर्याति स्वाधिव्याधिपताकिनी
न जिताश् शत्रुभिस् सङ्ख्ये ये निष्पिष्टाद्रिकोटयः । ते जराजीर्णराक्षस्या पश्याशु विजिता मुने
जरातुषारधवले शरीरसदनान्तरे । शक्नुवन्त्य् अक्षशिशवस् स्पन्दितुं न मनाग् अपि
संसारसंसृतेर् अस्या गन्धकुट्याश् शिरोगता । देहयष्ट्या जरानाम्नी चामरश्रीर् विराजते
जराचन्द्रोदयसिते शरीरनगरे स्थिते । क्षणाद् विकासम् आयाति मुने मरणकैरवम्
जरासुधालेपसिते शरीरान्तःपुरान्तरे । अशक्तिर् आर्तिर् आपच् च तिष्ठन्ति सुखम् अङ्गनाः
अभावाग्रेसरा यत्र जरा जयति जन्तुषु । कस् तत्रेह समाश्वासो मम मन्दमतेर् मुने
किं तेन दुर्जीवितदुर्ग्रहेण जरां गतेनापि हि जीव्यते यत् । जरा जगत्याम् अजिता नराणां सर्वैषणास् तात तिरस्करोति
विकल्पकल्पनानल्पकल्पितैर् अल्पबुद्धिभिः । भेदैर् उद्धुरतां नीतस् संसारकुहकभ्रमः
सतां कथम् इवास्थेह जायते जालपञ्जरे । बाला एवात्तुम् इच्छन्ति फलं मकुरबिम्बितम्
इहापि विद्यते यैषा पेलवा सुखभावना । आखुस् तन्तुम् इवाशेषं कालस् ताम् अपि कृन्तति
न तद् अस्तीह यद् अयं कालस् सकलघस्मरः । ग्रसते न जगज्जातं महाब्धिम् इव वाडवः
समस्तसामान्यतया भीमः कालो महेश्वरः । दृश्यसत्ताम् इमां सर्वां कवलीकर्तुम् उद्यतः