यद् आदाव् एव नास्तीदं तद् अद्यापि न विद्यते । यद् इदं भाति तद् ब्रह्म शान्तम् एकम् अनिङ्गनम्
मननीयमनोमानान्य् अतः कस्य कथं कुतः । निर्विकारम् अनाद्यन्तम् आस्यताम् अपयन्त्रणम्
परं पौरुषम् आश्रित्य यत्नाद् परमया धिया । भोगाशाभावनां चित्तात् समूलम् अलम् उद्धरेत्
यद् उदेति परो मोहो जरामरणकारणम् । आशापाशशतोल्लासी वासना तद् विजृम्भते
मम पुत्रा मम धनम् अहं सो ऽयम् इदं मम । इतीयम् इन्द्रजालेन वासनैका विवल्गति
शून्य एव शरीरे ऽस्मिन् विलोलो ऽर्जुनवातवत् । अविद्यया वासनया त्व् अहम्भावाहिर् अर्पितः
परमार्थेन तत्त्वज्ञ ममाहम् इदम् इत्य् अलम् । आत्मतत्त्वाद् ऋते मन्ये न कदाचन किञ्चन
साद्रिद्यूर्वीगिरिश्रेण्या सृष्टिदृष्ट्या पुनः पुनः । सैवान्येव विचित्रेयम् अविद्या परिवर्तते
उदेत्य् अज्ञानमात्रेण नश्यति ज्ञानमात्रतः । संविन्मात्रपरिच्छेद्या रज्ज्वाम् इव भुजङ्गमः
साद्रिद्यूर्वीनदी सेयं याविद्या ज्ञस्य राम सा । नाविद्या तस्य तद् ब्रह्म स्वे महिम्नि व्यवस्थितम्
रज्जुसर्पविकल्पौ द्वाव् अज्ञानैकोपकल्पितौ । ज्ञेन त्व् एकैव निर्णीता ब्रह्मदृष्टिर् अकृत्रिमा
मा भवाज्ञो भव ज्ञस् त्वं जहि संसारवासनाः । अनात्मन्य् आत्मभावेन किम् अन्य इव रोदिषि
कस् तवायं जडो मूको देहो भवति राघव । यदर्थं सुखदुःखाभ्याम् अवशः परिहीयते
यथा हि काष्ठजतुनोर् यथा बदरकुण्डयोः । श्लिष्टयोर् अपि नैकत्वं देहदेहवतोस् तथा
भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः । पवनस्य तथा देहनाशे नात्म विनश्यति
दुःखितो ऽहं सुखाढ्यो ऽहम् इति भ्रान्ती रघूद्वह । अनयोपहते चित्ते दुष्पारेह कदर्थना
मिथ्यैवानर्थकारिण्या मनोमननपीनया । अनया दुःखदायिन्या महामोहमलान्धया
चन्द्रबिम्बे सुधार्द्रे ऽपि कृत्वा रौरवकल्पनाम् । नारकं दाहसंशोषदुःखं समनुभूयते
जललोलोच्चकल्हारपुष्पशीतलवीचिषु । सरस्सु मृगतृष्णाढ्यं महत्त्वं परिदृश्यते
नभोनगरनिर्माणपातोत्पतनसम्भ्रमाः । स्वप्नादिष्व् अनुभूयन्ते विचित्रसुखदुःखदाः
संसारवासना चेतो यदि नाम न पूरयेत् । तज् जाग्रत्स्वप्नसंरम्भाः कं नयेयुर् इहापदम्
दृश्यन्ते रौरवावीचिनरकानर्थशासनाः । मिथ्याज्ञाने गते वृद्धिं स्वर्गोपवनभूमिषु
अनया वेधितं चेतो बिसतन्ताव् अपि क्षणात् । पश्यत्य् अखिलसंसारसागरावर्तविभ्रमम्
अनयोपहते चित्ते राज्य एव हि संस्थितः । तास् ता दशा जनो याति या न योग्याश् श्वपाकिनः
तस्माद् राम परित्यज्य वासनां भवबन्धनीम् । सर्वभावमयीं तिष्ठ नीरागस् स्फटिको यथा
तिष्ठतस् तव कार्येषु मास्तु रागानुरञ्जना । स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः
विगतकौतुकसङ्गसमिद्धया यदि करोषि सदैव हि लीलया । वरधिया जगति प्रकृतिक्रियास् तद् असि केन महान् उपमीयसे
एवम् उक्तो भगवता वसिष्ठेन महात्मना । रामः कमलपत्त्राक्ष उन्मीलित इवाबभौ
विकासितान्तःकरणश् शोभाम् अलम् उपाययौ । आश्वस्तस् तमसि क्षीणे पद्मो ऽर्कालोकवान् इव
बोधविस्मयसञ्जातसौम्यस्मितसिताननः । दन्तरश्मिसुधाधौताम् इमां वाचम् उवाच च