स्वदृष्टिक्षयसम्पत्ताव् असद् एवोत्थितं तमः । वस्तु स्वभावात् तद् व्योम्नः कार्ष्ण्यम् इत्य् अवलोक्यते
एतद्बुद्ध्या यथा व्योम्नि दृश्यमानो ऽपि कालिमा । न कालिमेति बोधस् स्याद् अविद्यातिमिरे तथा
असङ्कल्पो ह्य् अविद्याया निग्रहः कथितो बुधैः । यथा गगनपद्मिन्यास् स चातिसुकरस् स्वयम्
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनस्स्मरणं मन्ये साधो विस्मरणं वरम्
नष्टो ऽहम् इति सङ्कल्पाद् यथा दुःखेन नश्यति । प्रबुद्धो ऽस्मीति सङ्कल्पाज् जनो ऽभ्येति तथा सुखम्
तथा सम्मूढसङ्कल्पान् मूढताम् एति वै पुनः । प्रबोधोदारसङ्कल्पात् प्रबोधायानुधावति
क्षणात् संस्मरणाद् एषाम् अविद्योदेति शाश्वती । यत्नाद् विस्मरणाद् अर्थः परिनश्यति तत्त्वतः
भावनी सर्वभावानां सर्वभूतविमोहनी । तारणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिकी
मनो यद् अनुसन्धत्ते तत् सर्वेन्द्रियवृत्तयः । क्षणात् सम्पादयन्त्य् एता राजाज्ञाम् इव मन्त्रिणः
तस्मान् मनोऽनुसन्धानं भावेषु न करोति यः । अन्तश् चेतनयत्नेन स शान्तिम् अधिगच्छति
यद् आदाव् एव नास्तीदं तद् अद्यापि न विद्यते । यद् इदं भाति तद् ब्रह्म शान्तम् एकम् अनिङ्गनम्
मननीयमनोमानान्य् अतः कस्य कथं कुतः । निर्विकारम् अनाद्यन्तम् आस्यताम् अपयन्त्रणम्
परं पौरुषम् आश्रित्य यत्नाद् परमया धिया । भोगाशाभावनां चित्तात् समूलम् अलम् उद्धरेत्
यद् उदेति परो मोहो जरामरणकारणम् । आशापाशशतोल्लासी वासना तद् विजृम्भते
मम पुत्रा मम धनम् अहं सो ऽयम् इदं मम । इतीयम् इन्द्रजालेन वासनैका विवल्गति
शून्य एव शरीरे ऽस्मिन् विलोलो ऽर्जुनवातवत् । अविद्यया वासनया त्व् अहम्भावाहिर् अर्पितः
परमार्थेन तत्त्वज्ञ ममाहम् इदम् इत्य् अलम् । आत्मतत्त्वाद् ऋते मन्ये न कदाचन किञ्चन
साद्रिद्यूर्वीगिरिश्रेण्या सृष्टिदृष्ट्या पुनः पुनः । सैवान्येव विचित्रेयम् अविद्या परिवर्तते
उदेत्य् अज्ञानमात्रेण नश्यति ज्ञानमात्रतः । संविन्मात्रपरिच्छेद्या रज्ज्वाम् इव भुजङ्गमः
साद्रिद्यूर्वीनदी सेयं याविद्या ज्ञस्य राम सा । नाविद्या तस्य तद् ब्रह्म स्वे महिम्नि व्यवस्थितम्
रज्जुसर्पविकल्पौ द्वाव् अज्ञानैकोपकल्पितौ । ज्ञेन त्व् एकैव निर्णीता ब्रह्मदृष्टिर् अकृत्रिमा
मा भवाज्ञो भव ज्ञस् त्वं जहि संसारवासनाः । अनात्मन्य् आत्मभावेन किम् अन्य इव रोदिषि
कस् तवायं जडो मूको देहो भवति राघव । यदर्थं सुखदुःखाभ्याम् अवशः परिहीयते
यथा हि काष्ठजतुनोर् यथा बदरकुण्डयोः । श्लिष्टयोर् अपि नैकत्वं देहदेहवतोस् तथा
भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः । पवनस्य तथा देहनाशे नात्म विनश्यति
दुःखितो ऽहं सुखाढ्यो ऽहम् इति भ्रान्ती रघूद्वह । अनयोपहते चित्ते दुष्पारेह कदर्थना
मिथ्यैवानर्थकारिण्या मनोमननपीनया । अनया दुःखदायिन्या महामोहमलान्धया
चन्द्रबिम्बे सुधार्द्रे ऽपि कृत्वा रौरवकल्पनाम् । नारकं दाहसंशोषदुःखं समनुभूयते
जललोलोच्चकल्हारपुष्पशीतलवीचिषु । सरस्सु मृगतृष्णाढ्यं महत्त्वं परिदृश्यते
नभोनगरनिर्माणपातोत्पतनसम्भ्रमाः । स्वप्नादिष्व् अनुभूयन्ते विचित्रसुखदुःखदाः