यथोदिते दिनकरे क्वापि याति तमस्वती । तथा विवेके ऽभ्युदिते क्वाप्य् अविद्या प्रलीयते
दृढवासनया बन्धो घनताम् एति चेतसः । चलवेतालसङ्कल्पस् सन्ध्याकाले यथा शिशोः
यावत् किञ्चिद् इदं दृश्यं साविद्या क्षीयते च सा । आत्मभावनया ब्रह्मन्न् आत्मासौ कीदृशस् स्मृतः
चेत्यानुपातरहितं सामान्येन च सर्वगम् । यच् चित्तत्त्वम् अनाख्येयं स आत्मा परमेश्वरः
आब्रह्मस्तम्बपर्यन्तं तृणादि यद् इदं जगत् । तत् सर्वं सर्वदात्मैव नाविद्या विद्यते ऽनघ
सर्वं च खल्व् इदं ब्रह्म नित्यं चिद्घनम् अक्षयम् । कल्पनान्या मनोनाम्नी विद्यते न हि काचन
न जायते न म्रियते किञ्चिद् अस्मिञ् जगत्त्रये । न च भावविकाराणां सत्ता क्वचन विद्यते
केवलं केवलाभासं सर्वसामान्यम् अक्षतम् । चेत्यानुपातरहितं चिन्मात्रम् इह विद्यते
अस्मिन् नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे । शान्ते समसमाभोगे निर्विकारोदितात्मनि
यैषा स्वभावाभिगतं स्वयं सङ्कल्प्य धावति । चिच् चेत्यं स्वयम् अम्लाना सा म्लाना तन् मनस् स्मृतम्
एकस्मात् सर्वगाद् देवात् सर्वशक्तेर् महात्मनः । विभागकलनाशक्तिर् लहरीवोत्थिताम्भसः
एकस्मिन् वितते शान्ते या न किञ्चन विद्यते । सङ्कल्पमात्रेण गता सा सिद्धिं परमात्मनि
अतस् सङ्कल्पसिद्धेयं सङ्कल्पेनैव नश्यति । येनैव जाता तेनैव वह्निज्वालेव वायुना
पौरुषोद्योगसिद्धेन भोगाशारूपतां गता । असङ्कल्पनमात्रेण साविद्या परिलीयते
नाहं ब्रह्मेति सङ्कल्पात् सुदृढाद् बध्यते मनः । सर्वं ब्रह्मेति सङ्कल्पात् सुदृढान् मुच्यते पुनः
सङ्कल्पः परमो बन्धस् त्व् असङ्कल्पो विमुक्तता । सङ्कल्पम् अवजित्यान्तर् यथेच्छसि तथा कुरु
दृष्टा मयाम्बरे ऽत्रास्ति नलिनी हेमपङ्कजा । लोलवैडूर्यमधुपा सुगन्धितदिगम्बरा
उद्दण्डैः प्रकटाभोगैर् मृणालभुजमण्डलैः । विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलात्
विकल्पजालिकैवेत्थम् असत्यैवापि सत्समा । मनस्स्वास्थ्यविनाशार्थं यथा बालेन कल्प्यते
तथैवेयम् अविद्येह भावनाभवबन्धनी । चपलेनासुखायैव मनोबालेन कल्पिता
कृशो ऽतिदुःखी बद्धो ऽहं हस्तपादादिमान् अहम् । इति भावानुरूपेण व्यवहारेण बध्यते
नाहं दुःखी न मे देहः को बन्धो ऽस्यात्मनश् चितः । इति भावानुरूपेण व्यवहारेण मुच्यते
नाहं मांसं न चास्थीनि देहाद् अन्यः परो ह्य् अहम् । इति निश्चयवान् अन्तःक्षीणाविद्य इहोच्यते
प्रोत्तुङ्गसुरशैलाग्रवैडूर्यशिखरप्रभा । अथ वार्कांशुदुर्भेदा तिमिरश्रीस् स्थितोपरि
कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावजः । पुंसा धरणिसंस्थेन स्वविकल्पनयेद्धया
कल्पितैवम् अविद्येयम् अनात्मन्य् आत्मभावना । पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव
मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा । तद् इदं किं कृतं ब्रह्मन् नीलत्वं नभसो वद
न राम नीलता व्योम्नश् शून्यस्य गुणवत् स्थिता । अन्यरत्नप्रभाभावान् न चाप्य् एषात्र मैरवी
तेजोमयत्वाद् अण्डस्य स्फारत्वात् सिद्धतेजसः । प्राकाश्याद् अण्डपारस्य तमसो नात्र सम्भवः
केवलं शून्यतैवैषा बह्वी सुभग दृश्यते । वयस्येवानुरूपाया अविद्याया न सन्मयी