न यस्याश् चेतनैवास्ति याप्य् अनष्टैव नश्यति । तया स्त्रियापुरुषया चित्रम् अन्धीकृतः पुमान्
अनन्तदुष्प्रसरविलासकारिणी क्षयोदयोन्मुखसुखदुःखकारिणी । इयं प्रभो विगलति केन वासना मनोगुहानिलयनिबद्धभावना
अविद्याविभवप्रोत्थं जगतः पुरुषस्य वा । महद् आन्ध्यम् इदं ब्रह्मन् कथं नाम विनश्यति
यथा तुषारनलिनी भास्करालोकनात् क्षणात् । नश्यत्य् एवम् अविद्येयं नश्यत्य् आत्मावलोकनात्
तावत् संसारभृगुषु स्वात्मना सह देहिनम् । आन्दोलयति सा यैषा दुःखकण्टकजालिषु
अविद्या यावद् अस्यास् तु नोत्पन्ना क्षयकारिणी । स्वयम् आत्मावलोकेच्छा मोहसङ्क्षयदायिनी
अस्याः परं प्रपश्यन्त्यास् स्वात्मनाशः प्रवर्तते । आतपानुभवार्थिन्याश् छायाया इव राघव
दृष्टे सर्वगते देवे स्वयम् एव विलीयते । सर्वाशाभ्युदिते छाया द्वादशार्कगणे यथा
इच्छामात्रम् अविद्येह तन्नाशो मोक्ष उच्यते । स चासङ्कल्पमात्रेण सिद्धो भवति राघव
मनाग् अपि मनोव्योम्नि वासनातमसि क्षते । कालिमा तनुताम् एति चिदादित्यमहोदयात्
यथोदिते दिनकरे क्वापि याति तमस्वती । तथा विवेके ऽभ्युदिते क्वाप्य् अविद्या प्रलीयते
दृढवासनया बन्धो घनताम् एति चेतसः । चलवेतालसङ्कल्पस् सन्ध्याकाले यथा शिशोः
यावत् किञ्चिद् इदं दृश्यं साविद्या क्षीयते च सा । आत्मभावनया ब्रह्मन्न् आत्मासौ कीदृशस् स्मृतः
चेत्यानुपातरहितं सामान्येन च सर्वगम् । यच् चित्तत्त्वम् अनाख्येयं स आत्मा परमेश्वरः
आब्रह्मस्तम्बपर्यन्तं तृणादि यद् इदं जगत् । तत् सर्वं सर्वदात्मैव नाविद्या विद्यते ऽनघ
सर्वं च खल्व् इदं ब्रह्म नित्यं चिद्घनम् अक्षयम् । कल्पनान्या मनोनाम्नी विद्यते न हि काचन
न जायते न म्रियते किञ्चिद् अस्मिञ् जगत्त्रये । न च भावविकाराणां सत्ता क्वचन विद्यते
केवलं केवलाभासं सर्वसामान्यम् अक्षतम् । चेत्यानुपातरहितं चिन्मात्रम् इह विद्यते
अस्मिन् नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे । शान्ते समसमाभोगे निर्विकारोदितात्मनि
यैषा स्वभावाभिगतं स्वयं सङ्कल्प्य धावति । चिच् चेत्यं स्वयम् अम्लाना सा म्लाना तन् मनस् स्मृतम्
एकस्मात् सर्वगाद् देवात् सर्वशक्तेर् महात्मनः । विभागकलनाशक्तिर् लहरीवोत्थिताम्भसः
एकस्मिन् वितते शान्ते या न किञ्चन विद्यते । सङ्कल्पमात्रेण गता सा सिद्धिं परमात्मनि
अतस् सङ्कल्पसिद्धेयं सङ्कल्पेनैव नश्यति । येनैव जाता तेनैव वह्निज्वालेव वायुना
पौरुषोद्योगसिद्धेन भोगाशारूपतां गता । असङ्कल्पनमात्रेण साविद्या परिलीयते
नाहं ब्रह्मेति सङ्कल्पात् सुदृढाद् बध्यते मनः । सर्वं ब्रह्मेति सङ्कल्पात् सुदृढान् मुच्यते पुनः
सङ्कल्पः परमो बन्धस् त्व् असङ्कल्पो विमुक्तता । सङ्कल्पम् अवजित्यान्तर् यथेच्छसि तथा कुरु
दृष्टा मयाम्बरे ऽत्रास्ति नलिनी हेमपङ्कजा । लोलवैडूर्यमधुपा सुगन्धितदिगम्बरा
उद्दण्डैः प्रकटाभोगैर् मृणालभुजमण्डलैः । विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलात्
विकल्पजालिकैवेत्थम् असत्यैवापि सत्समा । मनस्स्वास्थ्यविनाशार्थं यथा बालेन कल्प्यते
तथैवेयम् अविद्येह भावनाभवबन्धनी । चपलेनासुखायैव मनोबालेन कल्पिता