कलुषोड्डामरकारा रजःप्रसरधूसरा । चला कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा
धूमालीवाङ्गसंलग्ना दाहस्वेदप्रदायिनी । गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते
धारा जलधरस्येव सुदीर्घा जडनिर्मिता । असारसङ्घातदृढरज्जुस् तृणगणैर् इव
तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता । मृणालीव बहुच्छिद्रा पङ्कप्रौढा जडात्मिका
ज्वालेव दृश्यते वृद्धितत्परा न च वर्धते । विषास्वाद इवापातमधुरान्ते सुदारुणा
नष्टा दीपशिखेवैषा न जाने क्वेह गच्छति । मिहिकेवाग्रदृष्टापि गृह्यमाणा न किञ्चन
पांसुमुष्टिर् इवास्तीर्य प्रेक्षिता पारमाणवी । आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते
द्विचन्द्रमोहवज् जाता स्वप्नवद् विहितभ्रमा । यथा नौयायिनस् स्थाणुस्पन्दस् तद्वद् इहोत्थिता
अनयोपहते चित्ते दीर्घकालम् इवाकुलैः । जनैर् आलक्ष्यते दीर्घस् संसारस्वप्नविभ्रमः
मनोज्ञम् अपि सत्यं च दृश्यते सद् असत्तया । अमनोज्ञम् असत्यं च दृश्यते ऽसच् च सत्तया
अनयोपहते त्व् अस्मिंश् चित्राश् चेतसि विभ्रमाः । उत्पद्यन्ते विनश्यन्ते तरङ्गास् तोयधेर् इव
पदार्थरथम् आरूढा भावनैषा बलान्विता । आक्रामति मनः क्षिप्रं विहगं वागुरा यथा
कारुण्यात् स्पन्दमानाक्षीं स्रवत्क्षीरलवस्तनीम् । नयत्य् उल्लासितानन्दं जननीं गृहिणीपदम्
विषीकरोति निष्ष्यन्दसन्तर्पितजगत्त्रयम् । सुधा सार्द्रम् अपि क्षिप्रं प्रवृद्धा बिम्बम् ऐन्दवम्
उन्मत्तवरवेतालवर्तनारम्भसम्भ्रमम् । स्थाणवस् सम्प्रयच्छन्ति मूकम् अप्य् एति यद् धिया
सन्ध्यादिषु च कालेषु लोष्टपाषाणभित्तयः । अस्याः प्रसादाद् दृश्यन्ते सर्पा जगति दृष्टिभिः
एको ऽपि द्वितयोदेति यथा द्विशशिदर्शने । दूरम् अभ्याशतां याति स्वप्ने ऽब्धितरणं यथा
आदीर्घः क्षणताम् एति कालस् सेष्टा यथा निशा । क्षणो वर्षम् इवाभाति कान्ताविरहिणाम् इव
न तद् अस्ति न यन् नाम न करोतीयम् उद्धता । अस्यास् त्व् अकिञ्चनायास् तु शक्ततां पश्य राघव
संरोधयेत् प्रयत्नेन संविदैवाशु संविदम् । संवित्स्रोतोनिरोधेन शुष्यत्य् एषा मनोनदी
अविद्यमानयैवेदं पेलवाङ्ग्या सुतुच्छया । मिथ्याभावनया नाम चित्रम् अन्धीकृतं जगत्
अरूपया निराकृत्या चारुचेतनहीनया । असत्येवाशु नश्यन्त्या चित्रम् अन्धीकृतं जगत्
आलोकेन विनश्यन्त्या स्फुरन्त्या तमसो ऽन्तरे । कौशिकेक्षणधर्मिण्या चित्रम् अन्धीकृतं जगत्
कुकर्मैकान्तकारिण्या न सहन्त्यावलोकनम् । देहम् अप्य् अविजानन्त्या चित्रम् अन्धीकृतं जगत्
सुधीराचारधर्मिण्या नित्यं प्राकृतकान्तया । अनारतास्तङ्गतया चित्रम् अन्धीकृतं जगत्
अनन्तदुःखाकुलया सदैव धृतयानया । सम्बोधहीनया नाम चित्रम् अन्धीकृतं जगत्
कामक्रोधघनस्तन्या तमःप्रसरवक्त्रया । अचेतनशरीरिण्या चित्रम् अन्धीकृतं जगत्
आत्मान्धकूपास्पदया जडया जाड्यजीर्णया । दुःखदीर्घप्रलापिन्या चित्रम् अन्धीकृतं जगत्
पुरुषासङ्गभङ्गिन्या रोगिण्याक्षतमायया । विवर्तिन्या विवक्षासु चित्रम् अन्धीकृतं जगत्
पुरुषस्य न या शक्ता सोढुम् ईक्षितम् अप्य् अलम् । तया स्त्रियाशरणया चित्रम् अन्धीकृतः पुमान्