अन्तश्शून्यापि सर्वत्र दृश्यते ऽसारसुन्दरी । न क्वचित् संस्थितापीह सर्वत्रैवोपलक्ष्यते
जडैव चिन्मयीवासाव् अन्यस्पन्दोपजीविनी । निमेषम् अप्य् अतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति
ज्वालेव शुद्धवर्णापि मषीमलिनकोटरा । वल्गत्य् अन्यप्रसादेन क्षीयते तदवीक्षिता
आलोके विमले म्लाना तमस्य् अतिविराजते । मृगतृष्णेव सुस्फारा नानावर्णविलासिनी
वक्रा विषमयी तन्वी मृद्वी कण्टककर्कशा । ललना चञ्चला क्षुद्धा तृष्णा जिह्वेव भोगिनः
स्वयं दीपशिखेवाशु क्षीयते स्नेहसङ्क्षये । सिन्दूरधूलिलेखेव विना रागं न रञ्जते
क्षणप्रकाशा तरला कृतसंस्था जडाशये । मुग्धानां त्रासजननी वक्रा विद्युद् इवोदिता
यत्नाद् गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते । लभ्यते ऽपि च नान्विष्टा विद्युद्वद् अतिभङ्गुरा
अप्रार्थितैवोपनता रमणीयाप्य् अनर्थदा । अकालपुष्पमालेव श्रेयसे नाभिनन्दिता
अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी । दुस्स्वप्नकलनेवेयम् अनर्थायैव सूत्थिता
प्रतिभासवशाद् एव त्रिजगन्ति महान्ति च । मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च
मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता । रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता
वियोगिनाम् अथान्येषां कान्ताविरहशालिनाम् । रात्रिर् वत्सरवद् दीर्घा भवत्य् अस्याः प्रसादतः
सुखितस्याल्पताम् एति दुःखितस्यैति दीर्घताम् । कालो ह्य् अस्याः प्रसादेन विपर्यासैकशालिना
अस्यास् स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु । दीपस्यालोककार्याणां यथा तद्वन् न वस्तुतः
सनितम्बस्तना चित्रे न स्त्री स्त्रीधर्मिणी यथा । तथैवाकारधीरेयं कर्तुं योग्या न किञ्चन
मनोराज्यम् इवाकारभास्वरा सत्यवर्जिता । सहस्रशतशाखापि न किञ्चित् परमार्थतः
अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता । विडम्बयति तान् मुग्धमृगान् एव न मानुषान्
फेनमालेव सञ्जातध्वस्ता विच्छेदवर्जिता । जडैव चञ्चलाकारा गृह्यमाना न किञ्चन
अनन्या चेतनस्यापि नूनम् अन्येव च स्थिता । क्रिमितन्तुर् इवादीर्घा जडैवाप्य् अजडाश्रिता
कलुषोड्डामरकारा रजःप्रसरधूसरा । चला कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा
धूमालीवाङ्गसंलग्ना दाहस्वेदप्रदायिनी । गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते
धारा जलधरस्येव सुदीर्घा जडनिर्मिता । असारसङ्घातदृढरज्जुस् तृणगणैर् इव
तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता । मृणालीव बहुच्छिद्रा पङ्कप्रौढा जडात्मिका
ज्वालेव दृश्यते वृद्धितत्परा न च वर्धते । विषास्वाद इवापातमधुरान्ते सुदारुणा
नष्टा दीपशिखेवैषा न जाने क्वेह गच्छति । मिहिकेवाग्रदृष्टापि गृह्यमाणा न किञ्चन
पांसुमुष्टिर् इवास्तीर्य प्रेक्षिता पारमाणवी । आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते
द्विचन्द्रमोहवज् जाता स्वप्नवद् विहितभ्रमा । यथा नौयायिनस् स्थाणुस्पन्दस् तद्वद् इहोत्थिता
अनयोपहते चित्ते दीर्घकालम् इवाकुलैः । जनैर् आलक्ष्यते दीर्घस् संसारस्वप्नविभ्रमः
मनोज्ञम् अपि सत्यं च दृश्यते सद् असत्तया । अमनोज्ञम् असत्यं च दृश्यते ऽसच् च सत्तया