अभावनं भावनायास् त्व् एतावान् भावनाक्षयः । एष एव मनोनाशस् त्व् अविद्यानाश उच्यते
यद् यत् संवेद्यते किञ्चित् तत्रासंवेदनं वरम् । असंवित्तिस् तु निर्वाणं दुःखं संवेदनाद् भवेत्
स्वेनैव तत् प्रयत्नेन पुंसस् सम्पद्यते क्षणात् । भावस्याभावनं भूत्यै तत् तस्मान् नित्यम् आहरेत्
रागादयो ये मनसेप्सितास् ते बुद्ध्वैव तांस् तांस् त्वम् अवस्तुभूतान् । त्यक्त्वा तदास्थाङ्कुरम् अस्तबीजं मा हर्षशोकौ समुपैषि तृप्तः
एषा हि वासना नित्यम् असत्य् एव यद् उत्थिता । द्विचन्द्रभ्रान्तिवत् तेन त्यक्तुं राघव युज्यते
अविद्याविद्यमानैव नष्टप्रज्ञस्य विद्यते । नाम्नैवाङ्गीकृताभावा सम्यक्प्रज्ञस्य सा कुतः
मा भवाज्ञो भव प्राज्ञस् सम्यग् राम विचारय । नास्त्य् एवेन्दुर् द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा
नात्मतत्त्वाद् ऋते किञ्चिद् विद्यते वस्त्व् अवस्तु वा । ऊर्मिमालिनि विस्तीर्णे वारिपूराद् ऋते यथा
स्वविकल्पकृतान् एतान् भावाभावान् असन्मयान् । नित्ये तते सिते शुद्धे मा समारोपयात्मनि
नासि कर्ता किम् एतासु क्रियासु ममता तव । एकस्मिन् विद्यमाने हि किं केन क्रियते कथम्
मा चाकर्ता भव प्राज्ञ किम् अकर्तृतयेह ते । साध्यं साध्यम् उपादेयं तस्मात् स्वस्थो भवानघ
कर्ता संस् त्वम् असक्तत्वाद् भवाकर्ता रघूद्वह । असक्तत्वाद् अकर्तापि कर्तृवत् स्पन्दनं कुरु
सत्यं चेत् स्याद् उपादेयं मिथ्या स्याद् धेयम् एव तत् । उपादेयैकसक्तत्वाद् युक्ता सक्तिर् हि कर्मणि
यत्रेन्द्रजालम् अखिलं मायामयम् अवस्तुकम् । तत्र कास् ताः कथं राम हेयोपादेयदृष्टयः
संसारबीजकणिका यैषाविद्या रघूद्वह । एषा ह्य् अविद्यमानैव सतीव स्फारतां गता
येयम् आभोगिनिस्सारसंसारारम्भचक्रिका । विज्ञेया वासनैषा सा चैतसी मोहदायिनी
चारुवंशलतेवान्तश्शून्यनिस्सारकोटरा । सरित्तरङ्गमालेव न व्युच्छिन्ना विनश्वरी
गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते । मृद्व्य् अप्य् अत्यन्ततीक्ष्णाग्रा निर्झरोर्मिर् इवोत्थिता
दृश्यते प्रकटाभासा सदर्थे नोपयुज्यते । तरङ्गिणी तरङ्गाभास्व् आकारपरिनिष्ठिता
क्वचिद् वक्रा क्वचिद् ऋज्वी दीर्घा खर्वा स्थिरा चला । यत्प्रसादोद्भवा तस्माद् व्यतिरेकम् उपागता
अन्तश्शून्यापि सर्वत्र दृश्यते ऽसारसुन्दरी । न क्वचित् संस्थितापीह सर्वत्रैवोपलक्ष्यते
जडैव चिन्मयीवासाव् अन्यस्पन्दोपजीविनी । निमेषम् अप्य् अतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति
ज्वालेव शुद्धवर्णापि मषीमलिनकोटरा । वल्गत्य् अन्यप्रसादेन क्षीयते तदवीक्षिता
आलोके विमले म्लाना तमस्य् अतिविराजते । मृगतृष्णेव सुस्फारा नानावर्णविलासिनी
वक्रा विषमयी तन्वी मृद्वी कण्टककर्कशा । ललना चञ्चला क्षुद्धा तृष्णा जिह्वेव भोगिनः
स्वयं दीपशिखेवाशु क्षीयते स्नेहसङ्क्षये । सिन्दूरधूलिलेखेव विना रागं न रञ्जते
क्षणप्रकाशा तरला कृतसंस्था जडाशये । मुग्धानां त्रासजननी वक्रा विद्युद् इवोदिता
यत्नाद् गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते । लभ्यते ऽपि च नान्विष्टा विद्युद्वद् अतिभङ्गुरा
अप्रार्थितैवोपनता रमणीयाप्य् अनर्थदा । अकालपुष्पमालेव श्रेयसे नाभिनन्दिता
अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी । दुस्स्वप्नकलनेवेयम् अनर्थायैव सूत्थिता