कल्पान्तपवना वान्तु यन्तु चैकत्वम् अर्णवाः । तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः
मनोबीजात् समुद्यन्ति शुभाशुभफलप्रदाः । संसारषण्डका एते लोकसप्तकपल्लवाः
असङ्कल्पनमात्रैकसाध्ये सकलसिद्धये । असङ्कल्पाभिसाम्राज्ये तिष्ठावष्टम्भतत्परः
प्रयच्छत्य् उत्तमानन्दं क्षीयमाणं मनः क्रमात् । कषक्षीणाङ्गको ऽङ्गारो यथाङ्गारक्षयार्थिनः
अपि ब्रह्मकुटीलक्ष्यं मनसश् चेत् समीहितम् । तद् अणोर् अन्तरे व्यक्तं विभक्तं परिदृश्यते
सङ्कल्पमात्रविभवेन कृतात्यनर्थं सङ्कल्पशान्तिविभवेन सुसाधितार्थम् । सन्तोषमात्रविभवेन मनो विजित्य नित्योदितेन जयम् एहि निरीहितेन
परमपावनया विमनस्तया समतया मतयात्मविदाम् अति । शमितया मितयान्तर् अहन्तया यद् अवशिष्टम् अजं पदम् अस्तु तत्
यस्मिन् यस्मिन् पदार्थे हि येन येन यथा तथा । तीव्रसंवेगसम्पन्नं मनः पश्यति वाञ्छितम्
जायते म्रियते चैषा मनसस् तीव्रवेगिता । सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः
शीतता तुहिनस्येव कज्जलस्येव कृष्णता । लोलता मनसो रूपं तीव्रातीव्रैकरूपिणः
कथम् अस्यातिलोलस्य वेगावेगैककारणम् । चलता मनसो ब्रह्मन् बलतो विनिवार्यते
नेह चञ्चलताहीनं मनः क्वचन दृश्यते । चञ्चलत्वं मनोधर्मो वह्निधर्मो यथोष्णता
यैषा हि चञ्चला स्पन्दशक्तिश् चित्तत्वसंस्थिता । तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम्
स्पन्दस्पर्शाद् ऋते वायोर् यथा सत्तैव नोह्यते । तथास्ति चित्तसत्ता नो चञ्चलस्पन्दनाद् ऋते
यत् तु चञ्चलताहीनं तन् मनो मृतम् उच्यते । स एव च तपश्शास्त्रप्रसिद्धो मोक्ष उच्यते
मनोविलयमात्रेण दुःखशान्तिर् अवाप्यते । मनोजननमात्रेण दुःखं परम् अवाप्यते
दुःखम् उत्पादयत्य् उच्चैर् उत्थितश् चित्तराक्षसः । सुखायानन्तभोग्याय तं प्रयत्नेन पातय
तस्य चञ्चलता यैषा ह्य् अविद्या नाम सोच्यते । वासनापरनाम्नी तां विचारेण विनाशय
अविद्यया वासनया तयान्तश् चित्तशान्तया । विलीनया त्यागवशात् परं श्रेयो ऽधिगम्यते
यत् तत् सदसतोर् मध्यं यन् मध्यं चित्त्वजाड्ययोः । तन् मनः प्रोच्यते राम द्वयदोलायिताकृति
जाड्यानुसन्धानहृतं जाड्यात्मकतयेद्धया । चेतो जडत्वम् आयाति दृढाभ्यासवशेन हि
विवेकैकानुसन्धानाच् चिदंशात्मतया मनः । चितैकताम् उपायाति दृढाभ्यासवशात् स्थिरम्
पौरुषेण प्रयत्नेन यस्मिन्न् एव पदे मनः । पात्यते तत् पदं प्राप्य भवत्य् अभ्यासलोहितम्
अतः पौरुषम् आश्रित्य चित्तम् आक्रम्य चेतसा । विशोकं पदम् आश्रित्य निराशङ्कस् स्थिरो भव
भवभावनया भग्नं मनसैव न चेन् मनः । बलाद् उत्तार्यते राम तद् उपायो ऽस्ति नेतरः
मन एव समर्थं वै मनसो दृढनिग्रहे । अराजा कस् समर्थस् स्याद् राज्ञो राघव निग्रहे
तृष्णाग्राहगृहीतानां संसारार्णवरंहसि । आवर्तैर् उह्यमानानां दूरं स्वमन एव नौः
मनसैव मनश् छित्त्वा पाशं परमबन्धनम् । उन्मोचितो न येनात्मा नासाव् अन्येन मोक्ष्यते
या योदेति मनोनाम्नी वासना वासितान्तरा । तां तां परिहरेत् प्राज्ञस् ततो ऽविद्याक्षयो भवेत्
भोगौघवासनां त्यक्त्वा त्यज त्वं खेदवासनाम् । भावाभावौ ततस् त्यक्त्वा निर्विकल्पस् सुखी भव