पौरुषेण प्रयत्नेन चित्तम् आश्व् एव जीयते । अचित्तेनासपत्नेन पदं ब्रह्मणि धीयते
स्वायत्तं च सुसाधं च स्वचित्ताक्रान्तिमात्रकम् । शक्नुवन्ति न ये कर्तुं धिक् तान् पुरुषजम्बुकान्
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा । मनःप्रशममन्त्रेण विनास्ति न शुभा गतिः
मनोमारणमात्रेण साध्येन स्वात्मसंविदा । निस्सपत्नम् अनाद्यन्तम् अनिङ्गनम् इहोष्यताम्
ईप्सितावेदनाङ्ग्यां तु मनःप्रशमनश्रियि । गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस् तृणम्
सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । असङ्कल्पनशस्त्रेण च्छिन्नं चित्तगदं यदा
स्वसंवेदनसाध्ये ऽस्मिन् सङ्कल्पानर्थनाशने । शान्तस्याच्छाभ्रवपुषि पुंसः केव कदर्थना
नूनं दैवम् अनादृत्य मूढसङ्कल्पकल्पितम् । पुरुषार्थेन संवित्त्या नय चित्तम् अचित्तताम्
तां महापदवीम् एकां काम् अप्य् अनुसरंश् चिरम् । चित्तं चिद्भक्षितं कृत्वा चित्त्वाद् अपि परं भव
भवभावनया मुक्तो युक्तः परमया धिया । धारयात्मानम् अव्यग्रो ऽग्रस्तचित्तं चितः परम्
परं पौरुषम् आश्रित्य नीत्वा चित्तम् अचित्तताम् । तां महापदवीम् एहि यत्र नासि न चेतरत्
संवेदनविपर्यासरूपिणारिर् इवाबलः । जेतुम् आशु मनो राम पौरुषेनैव शक्यते
अनुद्वेगश् श्रियो मूलम् अनुद्वेगात् प्रवर्तते । जन्तोर् मनोजयो येन त्रिलोकीविजयस् तृणम्
न शस्त्रदहनोत्पातपाता यस्यां मनाग् अपि । स्वभावमात्रव्यावृत्तौ तस्यां केव कदर्थना
अपि स्ववेदनाक्रान्ताव् अशक्ता ये नराधमाः । कथं व्यवहरिष्यन्ति व्यवहारदशासु ते
पुमान् दृतो ऽस्मि जातो ऽस्मि जीवामीति कुदृष्टयः । चेतसो वृत्तयो यान्ति चपलस्यासदुत्थिताः
न कश्चनेह म्रियते जायते नेह कश्चन । स्वयं वेत्ति मृतिं देहे लोकम् अन्यं गतं मनः
इतो यातं परे लोके स्फुरत्य् अन्यतया मनः । न नश्यत्य् एतद् आमोक्षम् अतो मृतिभयं कुतः
देहरूपेण विचरद् इहलोके परत्र च । चित्तम् आमोक्षम् आस्ते ऽस्य रूपम् अन्यन् न विद्यते
सुते भ्रातरि भृत्यादौ क्लेश आक्रमणं नृणाम् । न स्वचित्ते स्वचैतन्यव्यावृत्त्यात्मेति मे मतिः
तिर्यग् ऊर्ध्वम् अधस्ताच् च भूयो भूयो विचारितम् । यावन् नास्ति किलोपायश् चित्तोपशमनाद् ऋते
ऋते पथ्ये तते शुद्धे बोधे हृद्य् उदिते चिति । मनोविलयमात्रेण विश्रान्तिर् उपजायते
ध्यायते हृदयाकाशे चितिश् चिच्चक्रधारया । मनो मारय निश्शङ्कं त्वां प्रमथ्नन्ति नाधयः
यदि रम्यम् अरम्यत्वे त्वया संविदितं विदा । छिन्नान्य् एव तद् अङ्गानि चित्तस्येति मतिर् मम
अयं सो ऽहम् इदं तन् मे एतावन्मात्रकं मनः । तदभावनमात्रेण दात्रेणेव विलूयते
छिन्नाभ्रम् अमले व्योम्नि यथा शरदि धूयते । निर्विकल्पे परे तत्त्वे तथा निर्वासनं मनः
वहन्ति यत्र शस्त्राग्निपवनास् तत्र भीर् भवेत् । स्वायत्ते मृदुनि स्वच्छे किम् असङ्कल्पने भयम्
इदं श्रेय इदं नेति सिद्धम् आबालम् अक्षतम् । बालं पुत्रम् इवोदारे मनश् श्रेयसि योजयेत्
अक्षपञ्चाननं चेतस्सिंहं संसृतिबृंहणम् । घ्नन्ति ये ते जयन्तीह निर्वाणपदपातिनः
भीमास् सम्भ्रमदायिन्यस् सङ्कल्पकलनाद् इमाः । विपदस् सम्प्रसूयन्ते मृगतृष्णा मरोर् इव