यस्मिन् घननवस्नेहं मुखे पत्त्राङ्कुरश्रियः । कान्तेन रचिता ब्रह्मञ् शीर्यते तत् तु जङ्गले
केशाश् श्मशानवृक्षेषु यान्ति चामरलेशताम् । अस्थीन्य् उडुवद् आभान्ति दिनैर् अवनिमण्डले
पिबन्ति पांसवो रक्तं क्रव्यादाश् चाप्य् अनेकशः । चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः
इत्य् एषा ललनाङ्गानाम् अचिरेणैव भाविनी । स्थितिर् मया वः कथिता किं भ्रान्तिम् अनुधावथ
भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् । रसाद् अभिवहत्व् एतत् कथं नाम धियान्वितः
शाखावितानगहना कट्वम्लफलशालिनी । प्रतानोत्तालताम् एति चिन्ता कान्तानुसारिणी
क्वचिद् भूततया चेतो धनगर्धान्धम् आकुलम् । परं मोहम् उपादत्ते यूथभ्रष्टो मृगो यथा
शोच्यतां परमाम् एति तरुणस् तरुणीरतः । निबद्धः करिणीलोभाद् विन्ध्यखाते यथा द्विपः
यस्य स्त्री तस्य भोगेच्छा निस्स्त्रीकस्य न भोगभूः । स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत्
आपातमात्ररमणेषु दुरन्तरेषु भोगेषु नाहम् अलिपक्षतिपेलवेषु । ब्रह्मन् रमे मरणरोगजरादिभीत्या शाम्याम्य् अहं परम् उपैमि वनं प्रयत्नात्
अपर्याप्तं हि बालत्वं बाल्यं पिबति यौवनम् । यौवनं च जरा पश्चात् पश्य कर्कशतां मिथः
हिमाशनिर् इवाम्भोजं वात्येव शरदम्बुदम् । देहं जरा जरयति सरित् तीरतरुं यथा
शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् । समं पश्यन्ति कामिन्यः पुरुषं करभं तथा
श्वासायासकदर्थिन्या गृहीते जरसा जने । पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना
दासाः पुत्रास् स्त्रियश् चैव बान्धवास् सुहृदस् तथा । हसन्त्य् उन्मत्तकम् इव नरं वार्द्धककम्पितम्
दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः । गृध्रो वृक्षम् इवादीर्घं गर्धो ह्य् अभ्येति वृद्धताम्
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी । सर्वापदाम् एकसखी वर्धते वार्द्धके स्पृहा
कर्तव्यं किं मया कष्टं परत्रेत्य् अतिदारुणम् । अप्रतीकारयोग्यं हि वर्धते वार्द्धके भयम्
को ऽहं वराकः किम् इव करोमि कथम् एव वा । तिष्ठामि मौनम् एवेति दीनतोदेति वार्द्धके
गर्धो ऽभ्युदेति सोल्लासम् उपभोक्तुं न शक्यते । हृदयं दह्यते नूनं शक्तिदौस्स्थ्येन वार्द्धके
जराजीर्णबकी यावत् कासक्रेङ्कारकारिणी । रौति रोगोरगाकीर्णा कायद्रुमशिरस्स्थिता
तावद् आगत एवाशु कुतो ऽपि परिदृश्यते । घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः
सायंसन्ध्या प्रजातैव तमस् समनुधावति । जरा वपुषि दृष्टैव मृतिं समनुधावति
जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः । मृतिभृङ्गी द्रुतं ब्रह्मन् नरस्यायाति सूत्सुका
शून्यं नगरम् आभाति भाति च्छिन्नलतो द्रुमः । भात्य् अनावृष्टिमान् देशो न जराजर्जरं वपुः
क्षणान् निगिरणायैव कासक्वणितकारिणी । गृध्रीवामिषम् आदत्ते तरसैव नरं जरा
दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणात् । प्रलुनाति जरा देहं कुमारी कैरवं यथा
सीत्कारकारिणी पांसुपरुषा परिजर्जरम् । शरीरं शातयत्य् एषा वात्येव तरुपल्लवम्
जरसोपहतो देहो धत्ते जर्जरतां गतः । तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम्
जराज्योत्स्नोदितैवेयं शिरश्शिखरिपृष्ठतः । विकासयति संरब्धवातां कासकुमुद्वतीम्