सुखं दुःखं च मनसि तिले तैलम् इव स्थितम् । तद् देशकालवशतो घनं वा तनु वा भवेत्
तैलं तिलस्य च क्रान्त्या स्फुटताम् एति शाश्वतीम् । चेतसो मननासङ्गाद् घनीभूते सुखासुखे
देशकालाभिधानेन राम सङ्कल्प एव हि । कथ्यते तद्वशाद् यस्माद् देशकालौ स्थितिं गतौ
प्रशाम्यत्य् उल्लसत्य् एति याति नन्दति वल्गति । मनश् शरीरसङ्कल्पे फलिते न शरीरकम्
नानास्फालसमुल्लासैस् स्वसङ्कल्पोपकल्पितैः । मनो वल्गति देहे ऽस्मिन् स्वश्ववार इवाजिरे
चापले प्रसरस् तस्माद् अन्तर् येन न दीयते । मनो विनयम् आधत्ते तस्यालान इव द्विपः
न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः । सद्वस्तुनो ऽसौ पुरुषश् शिष्टाः कर्दमकीटकाः
यस्याचापलतां यातं मन एकत्र संस्थितम् । अनुत्तमपदेनासौ ध्यानेनानुगतो ऽनघः
संयमान् मनसश् शान्तिम् एति संसारसम्भ्रमः । मन्दरे ऽस्पन्दतां याते यथा क्षीरमहार्णवः
मनसो वृद्धयो या या भोगसङ्कल्पविभ्रमैः । संसारविषवृक्षस्य ता एवाङ्कुरयोनयः
चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः । आवर्तवर्तिनि विलूनविशीर्णचित्ताश् चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति
अस्य चित्तमहाव्याधेश् चिकित्सायां वरौषधम् । स्वायत्तं शृणु युक्त्यात्मसुसाधं स्वात्मनि स्थितम्
स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा । यत्नेन चित्तवेतालस् त्यक्त्वेष्टं वस्तु जीयते
त्यजन्न् अभिमतं वस्तु यस् तिष्ठति निरामयः । जितम् एव मनस् तेन कुदान्त इव दन्तिना
स्वसंवेदनयत्नेन पाल्यते चित्तबालकः । अवस्तुनो वस्तुनि च योज्यते बोध्यते ऽपि च
शास्त्रसङ्गमधीरेण चिन्तातप्तम् अतापिना । छिन्द्धि त्वम् अयसेवायो मनसैव मनो मुने
अयत्नेन यथा बाल इतश् चेतश् च युज्यते । भव्यैस् तथैव चेतो ऽन्तः किम् इवात्रातिदुष्करम्
सत्कर्मणि समाक्रान्तम् उदर्कोदयदायिनि । स्वपौरुषेणैव मनश् चेतनेन नियोजयेत्
स्वायत्तम् एकान्तहितं स्वेप्सितत्यागवेदनम् । यस्य दुष्करतां यातं धिक् तं पुरुषकीटकम्
अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा । मल्लेनेव शिशुश् चित्तम् अयत्नेनैव जीयते
पौरुषेण प्रयत्नेन चित्तम् आश्व् एव जीयते । अचित्तेनासपत्नेन पदं ब्रह्मणि धीयते
स्वायत्तं च सुसाधं च स्वचित्ताक्रान्तिमात्रकम् । शक्नुवन्ति न ये कर्तुं धिक् तान् पुरुषजम्बुकान्
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा । मनःप्रशममन्त्रेण विनास्ति न शुभा गतिः
मनोमारणमात्रेण साध्येन स्वात्मसंविदा । निस्सपत्नम् अनाद्यन्तम् अनिङ्गनम् इहोष्यताम्
ईप्सितावेदनाङ्ग्यां तु मनःप्रशमनश्रियि । गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस् तृणम्
सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । असङ्कल्पनशस्त्रेण च्छिन्नं चित्तगदं यदा
स्वसंवेदनसाध्ये ऽस्मिन् सङ्कल्पानर्थनाशने । शान्तस्याच्छाभ्रवपुषि पुंसः केव कदर्थना
नूनं दैवम् अनादृत्य मूढसङ्कल्पकल्पितम् । पुरुषार्थेन संवित्त्या नय चित्तम् अचित्तताम्
तां महापदवीम् एकां काम् अप्य् अनुसरंश् चिरम् । चित्तं चिद्भक्षितं कृत्वा चित्त्वाद् अपि परं भव
भवभावनया मुक्तो युक्तः परमया धिया । धारयात्मानम् अव्यग्रो ऽग्रस्तचित्तं चितः परम्