व्यतिरिक्ता यथा हेम्नो न हैमवनिता तथा । जाग्रत्स्वप्नक्रियालक्ष्मीर् व्यतिरिक्ता न चेतसः
धाराकणोर्मिफेनश्रीर् यथा संलक्ष्यते ऽम्भसः । तथा विचित्रविभवा नानातेयं हि चेतसः
स्वचित्तवृत्तिर् एवेयं जाग्रत्स्वप्नदृशोदिता । रसावेशाद् उपादत्ते शैलूष इव भूमिकाम्
चण्डालत्वं हि लवणः प्रतिभासवशाद् यथा । तथेदं जगद् आभोगि मनोमननमात्रकम्
यद् यत् संवेद्यते किञ्चित् तेन तेनाशु भूयते । मनोमनननिर्माणं यथेच्छसि तथा कुरु
नानापुरसरिच्छैलरूपताम् एत्य देहिनाम् । तनोत्य् अन्तस्स्थम् एवेदं जाग्रत्स्वप्नभ्रमं मनः
सुरत्वाद् दैत्यताम् एति नागत्वान् नगताम् अपि । प्रतिभासवशाच् चित्तम् आपदं लवणो यथा
नरत्वाद् एति नारीत्वं पितृत्वात् पुत्रतां पुनः । यथा क्षिप्रं प्रति नटस् स्वसङ्कल्पात् तथा मनः
सङ्कल्पतः प्रम्रियते सङ्कल्पाज् जायते पुनः । मनश् चिरतराभ्यस्ताज् जीवताम् एत्य् अनाकृति
मनो मननसम्मूढम् ऊढवासनमारुतात् । सङ्कल्पाद् योनिम् आयाति सुखं दुःखं भयाभये
सुखं दुःखं च मनसि तिले तैलम् इव स्थितम् । तद् देशकालवशतो घनं वा तनु वा भवेत्
तैलं तिलस्य च क्रान्त्या स्फुटताम् एति शाश्वतीम् । चेतसो मननासङ्गाद् घनीभूते सुखासुखे
देशकालाभिधानेन राम सङ्कल्प एव हि । कथ्यते तद्वशाद् यस्माद् देशकालौ स्थितिं गतौ
प्रशाम्यत्य् उल्लसत्य् एति याति नन्दति वल्गति । मनश् शरीरसङ्कल्पे फलिते न शरीरकम्
नानास्फालसमुल्लासैस् स्वसङ्कल्पोपकल्पितैः । मनो वल्गति देहे ऽस्मिन् स्वश्ववार इवाजिरे
चापले प्रसरस् तस्माद् अन्तर् येन न दीयते । मनो विनयम् आधत्ते तस्यालान इव द्विपः
न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः । सद्वस्तुनो ऽसौ पुरुषश् शिष्टाः कर्दमकीटकाः
यस्याचापलतां यातं मन एकत्र संस्थितम् । अनुत्तमपदेनासौ ध्यानेनानुगतो ऽनघः
संयमान् मनसश् शान्तिम् एति संसारसम्भ्रमः । मन्दरे ऽस्पन्दतां याते यथा क्षीरमहार्णवः
मनसो वृद्धयो या या भोगसङ्कल्पविभ्रमैः । संसारविषवृक्षस्य ता एवाङ्कुरयोनयः
चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः । आवर्तवर्तिनि विलूनविशीर्णचित्ताश् चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति
अस्य चित्तमहाव्याधेश् चिकित्सायां वरौषधम् । स्वायत्तं शृणु युक्त्यात्मसुसाधं स्वात्मनि स्थितम्
स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा । यत्नेन चित्तवेतालस् त्यक्त्वेष्टं वस्तु जीयते
त्यजन्न् अभिमतं वस्तु यस् तिष्ठति निरामयः । जितम् एव मनस् तेन कुदान्त इव दन्तिना
स्वसंवेदनयत्नेन पाल्यते चित्तबालकः । अवस्तुनो वस्तुनि च योज्यते बोध्यते ऽपि च
शास्त्रसङ्गमधीरेण चिन्तातप्तम् अतापिना । छिन्द्धि त्वम् अयसेवायो मनसैव मनो मुने
अयत्नेन यथा बाल इतश् चेतश् च युज्यते । भव्यैस् तथैव चेतो ऽन्तः किम् इवात्रातिदुष्करम्
सत्कर्मणि समाक्रान्तम् उदर्कोदयदायिनि । स्वपौरुषेणैव मनश् चेतनेन नियोजयेत्
स्वायत्तम् एकान्तहितं स्वेप्सितत्यागवेदनम् । यस्य दुष्करतां यातं धिक् तं पुरुषकीटकम्
अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा । मल्लेनेव शिशुश् चित्तम् अयत्नेनैव जीयते