सर्वभावानुगतया न चेत्यार्थविभिन्नया । रामात्मसत्तयामूकम् अपि देहसमं जडम्
मनो ऽन्तर् वल्गति व्यस्तमननैषणम् ऊर्जया । बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया
जाग्रच् चाभिमतं वस्तु नयत्य् अमृतमृष्टताम् । अनीहितं च विषतां नयत्य् अमृतम् अप्य् अलम्
प्रसृज्य सर्वभावानाम् अलम् आत्मचमत्कृतिम् । मनस् त्व् अभिमताकारं रूपं सृजति वस्तुषु
स्पन्देषु वायुताम् एति प्रकाशेषु प्रकाशताम् । द्रवेषु द्रवताम् एति चिच्छक्तिच्छुरितं मनः
पृथ्व्यां कठिनताम् एति शून्यवृत्तिषु शून्यताम् । सर्वत्रेच्छास्थितौ याति चिच्छक्तिच्छुरितं मनः
शुक्लं कृष्णीकरोत्य् एतत् कृष्णं नयति शुक्लताम् । विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः
मनस्य् अन्यत्र संसक्ते चर्वितस्यापि जिह्वया । भोजनस्यातिमृष्टस्य न स्वादो ह्य् अनुभूयते
यच् चित्तदृष्टं तद् दृष्टं न दृष्टं तदलोकितम् । अन्धकारे यथा रूपम् इन्द्रियं निर्मनस् तथा
इन्द्रियेण विनोदेति मनो नेन्द्रियम् उन्मनः । इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान् मनः
अत्यन्तभिन्नयोर् ऐक्यं येषाम् चित्तशरीरयोः । ज्ञातज्ञेया महात्मानो नमस्यास् ते सुपण्डिताः
कुसुमोल्लासिधम्मिला हेलावलितलोचना । काष्ठकुड्योपमाङ्गेषु लग्नाप्य् अमनसो ऽङ्गना
मनस्य् अन्यत्र संसक्ते वीतरागेण कानने । क्रव्यादचर्वितो ऽङ्गस्थस् स्वकरो ऽपि न लक्षितः
सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च । सुखेनैवाशु युज्यन्ते मनसो ऽतिशयान् मुनेः
मनस्य् अन्यत्र संसक्ते कथ्यमानापि यत्नतः । लता परशुकृत्तेव कथा विच्छिद्यते बत
मनस्य् अद्रितटारूढे गृहस्थेनापि जन्तुना । श्वभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते
मनस्य् उल्लसिते स्वप्ने हृद्य् एव पुरपर्वताः । आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षणात्
मनो विलुलितं स्वप्ने हृद्य् एवाद्रिपुरावलीम् । तनोति चलितो ऽम्भोधिर् वीचीचयम् इवात्मनि
अन्तर् अब्धेर् जलाद् यद्वत् तरङ्गापीडवीचयः । देहान्तर् मनसस् तद्वत् स्वप्नाद्रिपुरराजयः
अङ्कुरस्य यथा पत्त्रलतापुष्पफलश्रियः । मनसो ऽस्य तथा जाग्रत्स्वप्नविभ्रमभूतयः
व्यतिरिक्ता यथा हेम्नो न हैमवनिता तथा । जाग्रत्स्वप्नक्रियालक्ष्मीर् व्यतिरिक्ता न चेतसः
धाराकणोर्मिफेनश्रीर् यथा संलक्ष्यते ऽम्भसः । तथा विचित्रविभवा नानातेयं हि चेतसः
स्वचित्तवृत्तिर् एवेयं जाग्रत्स्वप्नदृशोदिता । रसावेशाद् उपादत्ते शैलूष इव भूमिकाम्
चण्डालत्वं हि लवणः प्रतिभासवशाद् यथा । तथेदं जगद् आभोगि मनोमननमात्रकम्
यद् यत् संवेद्यते किञ्चित् तेन तेनाशु भूयते । मनोमनननिर्माणं यथेच्छसि तथा कुरु
नानापुरसरिच्छैलरूपताम् एत्य देहिनाम् । तनोत्य् अन्तस्स्थम् एवेदं जाग्रत्स्वप्नभ्रमं मनः
सुरत्वाद् दैत्यताम् एति नागत्वान् नगताम् अपि । प्रतिभासवशाच् चित्तम् आपदं लवणो यथा
नरत्वाद् एति नारीत्वं पितृत्वात् पुत्रतां पुनः । यथा क्षिप्रं प्रति नटस् स्वसङ्कल्पात् तथा मनः
सङ्कल्पतः प्रम्रियते सङ्कल्पाज् जायते पुनः । मनश् चिरतराभ्यस्ताज् जीवताम् एत्य् अनाकृति
मनो मननसम्मूढम् ऊढवासनमारुतात् । सङ्कल्पाद् योनिम् आयाति सुखं दुःखं भयाभये