शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः । मदाविष्टमतिर् जन्तुर् भ्रमत् पश्यति भूतलम्
पर्याकुले हि मनसि शशिनो जायते ऽशनिः । अमृतं विषभावेन भुक्तं याति विषक्रियाम्
पुरपत्तननिर्माणम् असत् सद् इव पश्यति । वासनावलितं चेतस् स्वप्नवज् जाग्रद् एव हि
मोहैककारणं जन्तोर् मनसो वासनोल्बणा । उत्खातव्या प्रयत्नेन मूलच्छेदेन चैव सा
वासनावागुराकृष्टो मनोहरिणको नृणाम् । परां विवशताम् एति संसारवनगुल्मके
येनोच्छिन्ना विचारेण जीवस्य ज्ञेन वासना । निरभ्रस्येव सूर्यस्य तस्यालोको विराजते
अतस् त्वं मन एवेदं नरं विद्धि न देहकम् । जडो देहो मनस् त्व् अत्र न जडं नाजडं विदुः
यत् कृतं मनसा राम तत् कृतं विद्धि राघव । यत् त्यक्तं मनसा राम तत् त्यक्तं विद्धि राघव
मनोमात्रं जगत् कृत्स्नं मनः पर्वतमण्डलम् । मनो व्योम मनो भूमिर् मनो वायुर् मनो महान्
मनो यदि पदार्थं तु तद्भावेन न योजयेत् । ततस् सूर्यादयो ऽप्य् एते न प्रकाशाः कदाचन
मनो मोहम् उपादत्ते यस्यासौ मूढ उच्यते । शरीरे मोहम् आपन्ने न शवे मूढ उच्यते
मनः पश्यद् भवत्य् अक्षि शृण्वच् श्रवणतां गतम् । त्वग्भावं स्पर्शनाद् एति घ्राणताम् एति शिङ्घनात्
रसनाद् रसताम् एति विचित्रास्व् अत्र वृत्तिषु । नाटके नटवद् देहे मन एवाभिवर्तते
लघु दीर्घं करोत्य् एतत् सत्तासत्तां च गच्छति । कटुतां नयति स्वादु रिपुं नयति मित्रताम्
य एव प्रतिभासो ऽस्य चेतसो वृत्तिवर्तिनः । तत् सद् एव हि प्रत्यक्षं तन्मात्रानुभवाद् इह
प्रतिभासवशाद् एव स्वप्नार्थलितचेतसः । हरिश्चन्द्रस्य सम्पन्ना रात्रिर् द्वादशवार्षिकी
चित्तानुभाववशतो मुहूर्तत्वं गतं युगम् । इन्द्रद्युम्नस्य वैरिञ्चपुराभ्यन्तरवर्तिनः
मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् । प्रातःप्राप्यस्वराज्यस्य सुबद्धस्येव बन्धनम्
जिते मनसि सर्वैव विजितैवेन्द्रियावली । शीर्यते च यथा तन्तौ दग्धे सौक्तिकमालिका
सर्वतस् स्थितया स्वच्छरूपया निर्विकारया । समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया
सर्वभावानुगतया न चेत्यार्थविभिन्नया । रामात्मसत्तयामूकम् अपि देहसमं जडम्
मनो ऽन्तर् वल्गति व्यस्तमननैषणम् ऊर्जया । बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया
जाग्रच् चाभिमतं वस्तु नयत्य् अमृतमृष्टताम् । अनीहितं च विषतां नयत्य् अमृतम् अप्य् अलम्
प्रसृज्य सर्वभावानाम् अलम् आत्मचमत्कृतिम् । मनस् त्व् अभिमताकारं रूपं सृजति वस्तुषु
स्पन्देषु वायुताम् एति प्रकाशेषु प्रकाशताम् । द्रवेषु द्रवताम् एति चिच्छक्तिच्छुरितं मनः
पृथ्व्यां कठिनताम् एति शून्यवृत्तिषु शून्यताम् । सर्वत्रेच्छास्थितौ याति चिच्छक्तिच्छुरितं मनः
शुक्लं कृष्णीकरोत्य् एतत् कृष्णं नयति शुक्लताम् । विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः
मनस्य् अन्यत्र संसक्ते चर्वितस्यापि जिह्वया । भोजनस्यातिमृष्टस्य न स्वादो ह्य् अनुभूयते
यच् चित्तदृष्टं तद् दृष्टं न दृष्टं तदलोकितम् । अन्धकारे यथा रूपम् इन्द्रियं निर्मनस् तथा
इन्द्रियेण विनोदेति मनो नेन्द्रियम् उन्मनः । इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान् मनः