मयोक्तं तनयास्यां तु चितायां पतितात् पुनः । उत्कृत्योत्कृत्य भोक्तव्यं मत्तो मांसं क्षणात् त्वया
इत्य् उक्त्वा यावद् आत्मानं स्वं चितायां क्षिपाम्य् अहम् । लुठितो ऽस्मि जवात् तावद् अस्मात् सिंहासनान् नृपः
ततस् तूर्यनिनादेन जयशब्देन चाभितः । भृशम् एव प्रबुद्धो ऽहं स्मृत्या च वलितस् स्थितः
इति शाम्बरिकेणेह मोह उत्पादितो मम । अज्ञानेनेव जीवस्य दशाशतसमन्वितः
आत्मोदन्तं भवत्स्व् इत्थम् एनं कथितवान् अहम् । मार्काण्डेय इवानन्तं कल्पदुःखं सुराजसु
इत्य् उक्तवति राजेन्द्रे लवणे भूरितेजसि । अन्तर्धानं जगामासौ तत्र शाम्बरिकः क्षणात्
अथेदम् ऊचुस् ते सभ्या विस्मयाकुलचेतसः । अन्योऽन्यालोकनव्यग्रपद्मपत्त्रनिभेक्षणाः
अहो नु खलु चित्रेयं माया ननु विलक्षणा । को नु शाम्बरिको नाम क्व चासाव् अग्रतो गतः
सर्वशक्तेर् विचित्रा हि शक्तयश् शतशो विधेः । यद् विवेकिमनो ऽप्य् एष विमोहयति मायया
विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः । क्व सामान्यमनोवृत्तियोग्या विपुलसम्भ्रमाः
न च शाम्बरिकोत्थेयं माया मनसि मोहनी । अर्थस्य गृध्नवो ह्य् एते नित्यं शाम्बरिकाः किल
यत्नेन प्रार्थयन्ते ऽर्थं नान्तर्धानं व्रजन्ति ते । इति सन्देहदोलायां संस्थितौ लुठिता वयम्
सभायाम् अवसं तस्याम् अहं राम तदा किल । तेन प्रत्यक्षतो दृष्टं मयैतन् नाप्ततश् श्रूतम्
अतिबहुकलनाविवर्धिताङ्गं नय निजचित्तम् इदं शमं महात्मन् । शमम् उपगमिते परं स्वभावे परमम् उपैष्यसि पावनं पदं तत्
परस्मात् कारणाद् आदौ चिच् चेत्यपदपातिनी । कलनापदम् आसाद्य कलङ्ककलनान्तरम्
असत्स्व् एव विमोहेषु रामैवम्प्रायवृत्तिषु । घनेषु तुच्छताम् एत्य चिराय परिमज्जति
असद् एव मनोवृत्तिर् म्लाना विस्तारयत्य् अलम् । दुःखं दोषसहस्रेण वेतालम् इव बालकः
सद् एव हि महादुःखम् असत्तां नयति क्षणम् । निष्कलङ्का मनोवृत्तिर् अन्धकारम् इवार्करुक्
नयद् अभ्याशतां दूरम् अभ्याशं दूरतां नयत् । मनो वल्गति भूतेषु बालो बालखगेष्व् इव
अभयं भयम् अज्ञस्य चेतसो वासनावतः । दूरतो मुग्धपान्थस्य स्थाणुर् याति पिशाचताम्
शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः । मदाविष्टमतिर् जन्तुर् भ्रमत् पश्यति भूतलम्
पर्याकुले हि मनसि शशिनो जायते ऽशनिः । अमृतं विषभावेन भुक्तं याति विषक्रियाम्
पुरपत्तननिर्माणम् असत् सद् इव पश्यति । वासनावलितं चेतस् स्वप्नवज् जाग्रद् एव हि
मोहैककारणं जन्तोर् मनसो वासनोल्बणा । उत्खातव्या प्रयत्नेन मूलच्छेदेन चैव सा
वासनावागुराकृष्टो मनोहरिणको नृणाम् । परां विवशताम् एति संसारवनगुल्मके
येनोच्छिन्ना विचारेण जीवस्य ज्ञेन वासना । निरभ्रस्येव सूर्यस्य तस्यालोको विराजते
अतस् त्वं मन एवेदं नरं विद्धि न देहकम् । जडो देहो मनस् त्व् अत्र न जडं नाजडं विदुः
यत् कृतं मनसा राम तत् कृतं विद्धि राघव । यत् त्यक्तं मनसा राम तत् त्यक्तं विद्धि राघव
मनोमात्रं जगत् कृत्स्नं मनः पर्वतमण्डलम् । मनो व्योम मनो भूमिर् मनो वायुर् मनो महान्
मनो यदि पदार्थं तु तद्भावेन न योजयेत् । ततस् सूर्यादयो ऽप्य् एते न प्रकाशाः कदाचन