सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया । कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात्
कामनाम्ना किरातेन वितीर्णा मुग्धचेतसाम् । नार्यो नरविहङ्गानाम् अङ्गबन्धनवागुराः
ललनाविपुलालाने मनोमत्तमतङ्गजः । रतिशृङ्खलया ब्रह्मन् बद्धस् तिष्ठति मूकवत्
जन्मपल्वलमत्स्यानां कर्मकोटरचारिणाम् । पुंसां दुर्वासनारज्जुर् नारी बडिशपिण्डिका
मन्दुरेव तुरङ्गानाम् आलानम् इव दन्तिनाम् । पुंसाम् अब्जम् इवालीनां बन्धनं वामलोचनाः
नानारसमयी चित्रा भोगभूमिर् इयं मुने । स्त्रियम् आश्रित्य संयाता पराम् इह हि संस्थितिम्
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । दुःखशृङ्खलया नित्यम् अलम् अस्तु मम स्त्रिया
किं स्तनेन किम् अक्ष्णा वा किं नितम्बेन किं भ्रुवा । मांसमात्रैकसारेण करोम्य् अहम् अवस्तुना
इतो मांसम् इतो रक्तम् इतो ऽस्थीनि च वासरैः । ब्रह्मन् कतिपयैर् एव याति स्त्री विशरारुताम्
यास् ता निष्परुषैस् तूलैर् लालिताः पतिभिस् स्त्रियः । ता मुने प्रविभक्ताङ्ग्यस् स्वपन्ति पितृभूमिषु
यस्मिन् घननवस्नेहं मुखे पत्त्राङ्कुरश्रियः । कान्तेन रचिता ब्रह्मञ् शीर्यते तत् तु जङ्गले
केशाश् श्मशानवृक्षेषु यान्ति चामरलेशताम् । अस्थीन्य् उडुवद् आभान्ति दिनैर् अवनिमण्डले
पिबन्ति पांसवो रक्तं क्रव्यादाश् चाप्य् अनेकशः । चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः
इत्य् एषा ललनाङ्गानाम् अचिरेणैव भाविनी । स्थितिर् मया वः कथिता किं भ्रान्तिम् अनुधावथ
भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् । रसाद् अभिवहत्व् एतत् कथं नाम धियान्वितः
शाखावितानगहना कट्वम्लफलशालिनी । प्रतानोत्तालताम् एति चिन्ता कान्तानुसारिणी
क्वचिद् भूततया चेतो धनगर्धान्धम् आकुलम् । परं मोहम् उपादत्ते यूथभ्रष्टो मृगो यथा
शोच्यतां परमाम् एति तरुणस् तरुणीरतः । निबद्धः करिणीलोभाद् विन्ध्यखाते यथा द्विपः
यस्य स्त्री तस्य भोगेच्छा निस्स्त्रीकस्य न भोगभूः । स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत्
आपातमात्ररमणेषु दुरन्तरेषु भोगेषु नाहम् अलिपक्षतिपेलवेषु । ब्रह्मन् रमे मरणरोगजरादिभीत्या शाम्याम्य् अहं परम् उपैमि वनं प्रयत्नात्
अपर्याप्तं हि बालत्वं बाल्यं पिबति यौवनम् । यौवनं च जरा पश्चात् पश्य कर्कशतां मिथः
हिमाशनिर् इवाम्भोजं वात्येव शरदम्बुदम् । देहं जरा जरयति सरित् तीरतरुं यथा
शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् । समं पश्यन्ति कामिन्यः पुरुषं करभं तथा
श्वासायासकदर्थिन्या गृहीते जरसा जने । पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना
दासाः पुत्रास् स्त्रियश् चैव बान्धवास् सुहृदस् तथा । हसन्त्य् उन्मत्तकम् इव नरं वार्द्धककम्पितम्
दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः । गृध्रो वृक्षम् इवादीर्घं गर्धो ह्य् अभ्येति वृद्धताम्
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी । सर्वापदाम् एकसखी वर्धते वार्द्धके स्पृहा
कर्तव्यं किं मया कष्टं परत्रेत्य् अतिदारुणम् । अप्रतीकारयोग्यं हि वर्धते वार्द्धके भयम्
को ऽहं वराकः किम् इव करोमि कथम् एव वा । तिष्ठामि मौनम् एवेति दीनतोदेति वार्द्धके
गर्धो ऽभ्युदेति सोल्लासम् उपभोक्तुं न शक्यते । हृदयं दह्यते नूनं शक्तिदौस्स्थ्येन वार्द्धके