ज्वलदनलजटालवृक्षषण्डः प्रसृतमरुत्प्रसरापनुन्नलोकः । ज्वलनतपनभास्करात्मजानां रमणगृहानुकृतिं जगाम देशः
तस्मिंस् तदा वर्तमाने कष्टे विधिविपर्यये । अकालोल्बणकल्पान्ते नितान्तातपदायिनि
जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः । गता देशान्तरं व्योम्नश् शरदीव पयोधराः
देहावयवसंलीनपुत्रदाराग्र्यबान्धवाः । शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः
भुक्ताः केचन दिग्व्याघ्रैर् निर्गच्छन्तस् स्वमन्दिरात् । अजातपक्षकाश् श्येनैः खगा नीडोद्गता इव
प्रविष्टाः केचिद् अनलं ज्वलितं शलभा इव । केचिच् छ्वभ्रेषु पतिताश् शिलाश् शैलच्युता इव
अहं तु तान् परित्यज्य श्वशुरादीन् स्वकाञ् जनान् । कलत्रमात्रम् आदाय कृच्छ्राद् देशाद् विनिर्गतः
अनलान् अनिलांश् चैव रक्षकान् भक्षकान् अपि । वञ्चयित्वा भयान् मृत्योस् सदारो ऽहं विनिर्गतः
प्राप्य तद्देशपर्यन्तं तत्र तालतरोस् तले । अवरोप्य सुतान् स्कन्धात् तान् अनर्थान् इवोल्बणान्
विश्रान्तो ऽस्मि चिरश्रान्तो रौरवाद् इव निर्गतः । ग्रीष्मदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः
अथ चण्डालकन्यायां विश्रान्तायां तरोस् तले । सुप्तायां शीतलच्छाये द्वौ समालिङ्ग्य दारकौ
थुत्थको नाम तनयो ममैकः पुरतस् स्थितः । अत्यन्तवल्लभो ऽस्माकं कनीयान् कान्तिमान् इति
स माम् उवाच दीनात्मा बाष्पपूर्णविलोचनः । आप्त देह्य् आशु मे मांसं पानं च रुधिरं क्षणात्
पुनः पुनर् वदन्न् एवं स बालस् तनयो मम । प्राणान्तिकीं दशां प्राप्तस् साक्रन्दो हि पुनः क्षुधा
तस्योक्तं हि मया पुत्र मांसं नास्तीति भूरिशः । तथापि मांसं देहीति वदत्य् एव सुदुर्मतिः
अथ वात्सल्यमूढेन मया दुःखातिभारिणा । तस्योक्तं पुत्र मन्मांसं पक्वं सम्भुज्यताम् इति
तद् अप्य् अङ्गीकृतं तेन देहीति वदता पुनः । मन्मांसभक्षणं क्षीणवृत्तिना श्लथकृत्तिना
सर्वदुःखापनोदाय स्नेहकारुण्यमोहितः । मरणायात्तमित्राय ततो ऽहं सहसोत्थितः
ग्रीष्मतापोपतप्तानि काष्ठान्य् आहृत्य जङ्गलात् । मरणायात्मनस् तत्र चिता विरचिता मया
लेलिहानानलज्वाला चिता प्रज्वालिताथ सा । क्षणाच् चटचटास्फोटैस् स्थिता मदभिकाङ्क्षिणी
मयोक्तं तनयास्यां तु चितायां पतितात् पुनः । उत्कृत्योत्कृत्य भोक्तव्यं मत्तो मांसं क्षणात् त्वया
इत्य् उक्त्वा यावद् आत्मानं स्वं चितायां क्षिपाम्य् अहम् । लुठितो ऽस्मि जवात् तावद् अस्मात् सिंहासनान् नृपः
ततस् तूर्यनिनादेन जयशब्देन चाभितः । भृशम् एव प्रबुद्धो ऽहं स्मृत्या च वलितस् स्थितः
इति शाम्बरिकेणेह मोह उत्पादितो मम । अज्ञानेनेव जीवस्य दशाशतसमन्वितः
आत्मोदन्तं भवत्स्व् इत्थम् एनं कथितवान् अहम् । मार्काण्डेय इवानन्तं कल्पदुःखं सुराजसु
इत्य् उक्तवति राजेन्द्रे लवणे भूरितेजसि । अन्तर्धानं जगामासौ तत्र शाम्बरिकः क्षणात्
अथेदम् ऊचुस् ते सभ्या विस्मयाकुलचेतसः । अन्योऽन्यालोकनव्यग्रपद्मपत्त्रनिभेक्षणाः
अहो नु खलु चित्रेयं माया ननु विलक्षणा । को नु शाम्बरिको नाम क्व चासाव् अग्रतो गतः
सर्वशक्तेर् विचित्रा हि शक्तयश् शतशो विधेः । यद् विवेकिमनो ऽप्य् एष विमोहयति मायया
विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः । क्व सामान्यमनोवृत्तियोग्या विपुलसम्भ्रमाः