आक्रुष्टम् उद्धतरवं रुदितं विपत्सु भुक्तं कदन्नम् उषितं हतपक्कणेषु । कालान्तरं बहु मयोपहतेन तत्र दुर्वासनानिगडबन्धगतेन सभ्याः
अथ गच्छति काले ऽत्र जराजर्जरितायुषि । तुषारपूर्णशष्पौघसमश्मश्रुधृते मयि
कर्मवातावनुन्नेषु सरसेष्व् अरसेष्व् अपि । पतत्सु वासरौघेषु शीर्णपर्णगणेष्व् इव
आजाव् इव शरौघेषु सुखदुःखेष्व् अनारतम् । कलहेष्व् अथ कार्येषु आगच्छत्सु व्रजत्सु च
विकल्पकलनावर्तवर्तिनीव जगद्भ्रमे । समुद्र इव कल्लोलभरे भ्रमति चेतसि
चलं चिन्ताचितं चक्रम् आरूढे भ्रान्त आत्मनि । प्रोह्यमाने तृण इव सावर्ते कालसागरे
विन्ध्योर्वीव्रणकीटस्य ग्रामैकशरणस्य च । द्विबाहोर् गर्दभस्यात्र क्षीण इत्थं समागणे
विस्मृते मम भूपत्वे शवस्येव महाज्वरे । चण्डालत्वे स्थिरीभूते छिन्नपक्ष इवाचले
संसारम् इव कल्पान्तो दावाग्निर् इव काननम् । सागरोर्मिस् तटम् इव शुष्कवृक्षम् इवाशनिः
अकाण्डमरणोड्डीनचण्डचण्डालमण्डलम् । निरन्नतृणपत्त्राम्बु विन्ध्यकच्छं तदा ययौ
न वर्षति घनव्राते दृष्टनष्टे क्वचित् स्थिते । पूताङ्गारकणोन्मिश्रगतौ वहति मारुते
शीर्णमर्मरपर्णासु दावाग्निवलितासु च । वनस्थलीषु शून्यासु चिरप्रव्रजितास्व् इव
अकाण्डम् अभवद् भीमम् उद्दामदवपावकम् । शोषिताशेषगहनं भस्मशेषतृणोलपम्
पांसुधूसरसर्वाङ्गं क्षुधिताशेषमानवम् । निरन्नतृणपानीयदेशोद्यद्दावमण्डलम्
कचन्मरुमरीच्यम्बुमज्जन्महिषमण्डलम् । वातोत्थसैकतव्यूहवारिवाहावृताम्बरम्
पानीयशब्दमात्रैकश्रवणोत्कनरव्रजम् । आतपाद् अतिसंशोषसीदत्सकलमानवम्
पुत्रग्रसनसंरब्धक्षुधितोज्झितजीवितम् । स्वाङ्गचर्वणसंरम्भलुठद्दशनमण्डलम्
मांसशङ्कानिगीर्णोग्रखदिराग्निकणोत्करम् । मण्डूकाशावशग्रस्तवनपाषाणखण्डकम्
अन्योऽन्यद्रुतसंसक्तमातृपुत्रपितृव्रजम् । गृध्रोदररटत्साग्रनिगीर्णवनशारिकम्
परस्पराङ्गविच्छेदरक्तसिक्तधरातलम् । हरिग्रसनसंरब्धमत्तक्षुभितवारणम्
दरीनिगिरणैकोत्कसिंहभ्रमणभीषणम् । अन्योऽन्यग्रसनोद्युक्तलोकमल्लकृताहवम्
निष्पत्त्रपादपोड्डीनपूताङ्गारमयानिलम् । रक्तपानोत्कमार्जारलीढधातुतलावनि
ज्वालाघनघनाटोपसावतंसवनानिलम् । सर्वस्खलज्ज्वलद्वह्निपुञ्जपिञ्जरजङ्गलम्
दग्धाजगरकुञ्जोत्थधूममांसलगुल्मकम् । मारुतावलितज्वालासन्ध्याभ्रवलिताम्बरम्
उड्डामरमरुद्भ्रान्तभास्मनस्तम्भमण्डलम् । साक्रन्दनरदन्ताग्रशीर्णार्भककृतारवम्
सम्भ्रान्तपुरुषव्यूहदन्तकृत्तमहाशवम् । मांसभोगजवग्रस्तरक्तरक्तनिजाङ्गुलि
नीलपत्त्रलताशब्दपीतधूमघनच्छवि । भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकामिषम्
इतरेतरभिन्नाङ्गलोकविद्रवणाकुलम् । ज्वलिताग्निटनत्कारविदीर्णहृदयोदरम्
गतमारुतभाङ्कारभीमदावाग्निवल्गनम् । भीताजगरफूत्कारपतदङ्गारपादपम्
तद् अकाण्डं स्फुटं प्राप्य स देशश् शुष्ककोटरः । द्वादशार्काग्निदग्धस्य जगतो ऽनुकृतिं ययौ