रोमभिः कोटिषु प्रोच्चैश् शीतेनोद्धृषितस्य मे । वर्षासु मुक्ताकणवद् धृतास् सलिलबिन्दवः
अजाजिमूलखण्डार्थं क्षुत्क्षोभक्षीणकुक्षिणा । कलत्रेण महाटव्यां कृतः कलह आकुलः
वने रणितदन्तेन शीतकेकरचक्षुषा । मषीमलिनगात्रेण वेतालस्वजनायितम्
सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा । कल्पे जगत्सु भूतार्थं कृतान्तेनेव पाशिना
पीतं बहूपवासेन सम्यक्कृत्तान् मृगोरसः । तत्कालकोष्णं रुधिरं मातुस् स्तनपयो यथा
श्मशानसंस्थितान् मत्तो रक्तरक्तात् पलाशिनः । विद्रुता वनवेतालाश् चण्डिकाभिद्रुता इव
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् । आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः
मया मायामयैर् लोकास् सूत्रजालमयैः खगाः । जालैर् जर्जरतां नीता दिशश् च सुकृतायुषाम्
तत्रातिदत्तप्रसरे मनसो दुष्कृतोदये । आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी
करभ्या इव सर्पेण विद्रुतं दूरतो ह्रिया । दूरे त्यक्ता दया देहाद् भुजङ्गेनेव कञ्चुकम्
क्रौर्यं मुखरसंरम्भि शरवर्षि निनादि च । अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः
विकासिन्यो ऽक्षताकारा दूरं परिहृता जनैः । श्वभ्रेणेव कुमञ्जर्यश् चिरम् ऊढा मयापदः
श्वकाकाकुलकोणासु नरकोड्डारभूमिषु । उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः
वागुरासिमता विन्ध्यकन्दरस्थेन निर्दयम् । भूतेष्व् इव कृतान्तेन मृगेषु परिवल्गितम्
पामरीकण्ठकुड्येषु विश्रान्तशिरसा मया । सुप्तम् अस्तविवेकेन शेषाङ्गेष्व् इव शौरिणा
विलोलपर्णाम्बरया शरावोल्लासिधूमया । मम तन्वा सनीहारविन्ध्यकच्छगुहायितम्
कृष्णदेहेन यौकाढ्या कन्था स्कन्धे मया चिरम् । ग्रीष्मेषूढा बलोद्भूता वराहेण यथोर्वरा
बहुशो ऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः । कल्पाग्निभुक्तजगतः कालस्यानुकृतिं गतः
लोहलिङ्गा यथा रोगान् अनर्थान् इव दुर्ग्रहाः । प्रसूतास् तत्र मे दारा दुःखान्य् अपि सुतान् अपि
त्रिबालपुत्रिकेणैकतनयेन तदा मया । नीता नीरन्ध्रदोषेण षष्टिः कल्पसमास् समाः
आक्रुष्टम् उद्धतरवं रुदितं विपत्सु भुक्तं कदन्नम् उषितं हतपक्कणेषु । कालान्तरं बहु मयोपहतेन तत्र दुर्वासनानिगडबन्धगतेन सभ्याः
अथ गच्छति काले ऽत्र जराजर्जरितायुषि । तुषारपूर्णशष्पौघसमश्मश्रुधृते मयि
कर्मवातावनुन्नेषु सरसेष्व् अरसेष्व् अपि । पतत्सु वासरौघेषु शीर्णपर्णगणेष्व् इव
आजाव् इव शरौघेषु सुखदुःखेष्व् अनारतम् । कलहेष्व् अथ कार्येषु आगच्छत्सु व्रजत्सु च
विकल्पकलनावर्तवर्तिनीव जगद्भ्रमे । समुद्र इव कल्लोलभरे भ्रमति चेतसि
चलं चिन्ताचितं चक्रम् आरूढे भ्रान्त आत्मनि । प्रोह्यमाने तृण इव सावर्ते कालसागरे
विन्ध्योर्वीव्रणकीटस्य ग्रामैकशरणस्य च । द्विबाहोर् गर्दभस्यात्र क्षीण इत्थं समागणे
विस्मृते मम भूपत्वे शवस्येव महाज्वरे । चण्डालत्वे स्थिरीभूते छिन्नपक्ष इवाचले
संसारम् इव कल्पान्तो दावाग्निर् इव काननम् । सागरोर्मिस् तटम् इव शुष्कवृक्षम् इवाशनिः
अकाण्डमरणोड्डीनचण्डचण्डालमण्डलम् । निरन्नतृणपत्त्राम्बु विन्ध्यकच्छं तदा ययौ