कलत्रचिन्ताहतया धिया सन्दह्यमानया । दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव
क्षौमानेकसमाक्षीणपटखण्डकधारिणा । काष्ठभारो वने व्यूढो यो मूर्तम् इव दुष्कृतम्
यौककीर्णजरक्लिन्नगन्धिकौपीनवाससा । आढ्यास्पदवलीकानां तले नीता घनागमाः
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः । हेमन्ते दुर्दुरेणेव निलीनं वनकुक्षिषु
नानाकलहकल्लोलतापप्रसरविद्रुताः । बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः
यामिन्यो विपिने क्लिन्नवराहामिषभोजिना । शिलातलकुटीकोणे नीता जलदविप्लुताः
काले क्षयं गते स्नेहे कलत्रे ऽघनतां गते । असौहार्देन बन्धूनां कलहैश् चातिसन्ततैः
सर्वत्र जातशङ्केन कुलीलामुखरार्भके । मया कृपणचित्तेन नीताः परगृहे समाः
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः । मुखं जर्जरतां यातम् इन्दू राहुरदैर् इव
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः । नरकाहृतविक्रीता नारक्यो रसना इव
हिमवत्कन्दरोद्गीर्णाश् चण्डा हेमन्तवायवः । अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः
जरज्जरढमूढेन मूलानि क्षीणभूरुहाम् । सुकृतानाम् इवैकेन समुत्खातानि भूरिशः
शरावकेष्व् अटव्यां च पललं पक्वम् आदरात् । अमृष्टेन जनैर् भुक्तं कुकलत्रवता मया
ग्रहीतृतेजःक्षतये बहुवक्त्रविकारिणा । भागधेयम् इवात्मीयं विक्रीतं पण्यम् अन्यतः
प्राण्यङ्गवपुषस् स्वस्य प्रोत्कृत्योत्कृत्य पेशयः । आयुषः परि विक्रीता विन्ध्यपक्कणभूमिषु
जन्मान्तरसहस्रोत्थं स्वं पापम् इव वृद्धये । अवकीर्णं च सङ्कीर्णं मण्डलारामभूमिषु
दृष्टं कुद्दालकं दृष्ट्या ऋज्व्या स्नेहसमुत्कया । रौरवापतितेनेव तत्काकस् स्निग्धतां गतः
विन्ध्यकन्दरगुल्मानां बन्धुत्वम् इव गच्छता । पुलिन्दवपुषा पत्त्रपङ्क्तयो ऽङ्गे समर्पिताः
तर्पिता लगुडास्फालजितकौलेयरंहसा । पुत्रदाराः कदन्नेन ग्राम्यकाद् याचितेन च
धारासाररणत्पत्त्रशुष्कतालतले निशाः । नीता रणितदन्तेन सार्धं विपिनवानरैः
रोमभिः कोटिषु प्रोच्चैश् शीतेनोद्धृषितस्य मे । वर्षासु मुक्ताकणवद् धृतास् सलिलबिन्दवः
अजाजिमूलखण्डार्थं क्षुत्क्षोभक्षीणकुक्षिणा । कलत्रेण महाटव्यां कृतः कलह आकुलः
वने रणितदन्तेन शीतकेकरचक्षुषा । मषीमलिनगात्रेण वेतालस्वजनायितम्
सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा । कल्पे जगत्सु भूतार्थं कृतान्तेनेव पाशिना
पीतं बहूपवासेन सम्यक्कृत्तान् मृगोरसः । तत्कालकोष्णं रुधिरं मातुस् स्तनपयो यथा
श्मशानसंस्थितान् मत्तो रक्तरक्तात् पलाशिनः । विद्रुता वनवेतालाश् चण्डिकाभिद्रुता इव
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् । आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः
मया मायामयैर् लोकास् सूत्रजालमयैः खगाः । जालैर् जर्जरतां नीता दिशश् च सुकृतायुषाम्
तत्रातिदत्तप्रसरे मनसो दुष्कृतोदये । आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी
करभ्या इव सर्पेण विद्रुतं दूरतो ह्रिया । दूरे त्यक्ता दया देहाद् भुजङ्गेनेव कञ्चुकम्