निरभ्राम्बरनक्षत्रे कस्मिंश्चिन् दिवसे ततः । तैस् तैर् आरम्भसंरम्भैस् तैर् वस्त्रविभवार्पणैः
दत्ताथ तेन सा मह्यं कुमारी भयदायिनी । सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव शासना
सरभसम् अभितो विनेदुर् अत्र प्रसृतमहामदिरासवाश् श्वपाकाः । हतपटुपटहा विलासवन्तस् स्वयम् इव दुष्कृतराशयो महान्तः
बहुनात्र किम् उक्तेन स्वोत्सवावर्जिताशयः । ततःप्रभृति तत्राहं सम्पन्नः पुष्टपुक्कसः
सप्तरात्रोत्सवस्यान्ते क्रमान् मासाष्टकं गतम् । पुष्पिता साथ सम्पन्ना स्थिता गर्भवती ततः
प्रासूत दुःखदां कन्यां विपद् दुःखक्रियाम् इव । सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी
पुनः प्रासूत सा वर्षैस् त्रिभिः पुत्रम् अशोभनम् । अनर्थम् इव दुर्बुद्धिर् आशापाशविधायकम्
पुनः प्रासूत कन्यां च पुनर् अप्य् अर्भकं ततः । कलत्रवान् अहं जातो वने जरढपुक्कसः
तया सह समास् तत्र मया बह्व्यो ऽतिवाहिताः । नरके चिन्तया सार्धं ब्रह्मघ्नेनेव नश्यता
शीतवातातपक्लेशविवशेन वनान्तरे । चिरं विलुलितं वृद्धकच्छपेनेव पल्वले
कलत्रचिन्ताहतया धिया सन्दह्यमानया । दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव
क्षौमानेकसमाक्षीणपटखण्डकधारिणा । काष्ठभारो वने व्यूढो यो मूर्तम् इव दुष्कृतम्
यौककीर्णजरक्लिन्नगन्धिकौपीनवाससा । आढ्यास्पदवलीकानां तले नीता घनागमाः
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः । हेमन्ते दुर्दुरेणेव निलीनं वनकुक्षिषु
नानाकलहकल्लोलतापप्रसरविद्रुताः । बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः
यामिन्यो विपिने क्लिन्नवराहामिषभोजिना । शिलातलकुटीकोणे नीता जलदविप्लुताः
काले क्षयं गते स्नेहे कलत्रे ऽघनतां गते । असौहार्देन बन्धूनां कलहैश् चातिसन्ततैः
सर्वत्र जातशङ्केन कुलीलामुखरार्भके । मया कृपणचित्तेन नीताः परगृहे समाः
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः । मुखं जर्जरतां यातम् इन्दू राहुरदैर् इव
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः । नरकाहृतविक्रीता नारक्यो रसना इव
हिमवत्कन्दरोद्गीर्णाश् चण्डा हेमन्तवायवः । अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः
जरज्जरढमूढेन मूलानि क्षीणभूरुहाम् । सुकृतानाम् इवैकेन समुत्खातानि भूरिशः
शरावकेष्व् अटव्यां च पललं पक्वम् आदरात् । अमृष्टेन जनैर् भुक्तं कुकलत्रवता मया
ग्रहीतृतेजःक्षतये बहुवक्त्रविकारिणा । भागधेयम् इवात्मीयं विक्रीतं पण्यम् अन्यतः
प्राण्यङ्गवपुषस् स्वस्य प्रोत्कृत्योत्कृत्य पेशयः । आयुषः परि विक्रीता विन्ध्यपक्कणभूमिषु
जन्मान्तरसहस्रोत्थं स्वं पापम् इव वृद्धये । अवकीर्णं च सङ्कीर्णं मण्डलारामभूमिषु
दृष्टं कुद्दालकं दृष्ट्या ऋज्व्या स्नेहसमुत्कया । रौरवापतितेनेव तत्काकस् स्निग्धतां गतः
विन्ध्यकन्दरगुल्मानां बन्धुत्वम् इव गच्छता । पुलिन्दवपुषा पत्त्रपङ्क्तयो ऽङ्गे समर्पिताः
तर्पिता लगुडास्फालजितकौलेयरंहसा । पुत्रदाराः कदन्नेन ग्राम्यकाद् याचितेन च
धारासाररणत्पत्त्रशुष्कतालतले निशाः । नीता रणितदन्तेन सार्धं विपिनवानरैः