वाहयत्य् अत्र मे दान्तान् उड्डारे पुक्कसः पिता । श्मशान इव वेतालः क्षुधितो धूलिधूसरः
तस्येदम् अन्नं भवति भर्तृत्वे दीयते स्थिते । प्राणैर् अपि हि सम्पूज्या वल्लभाः पुरुषा यतः
अथोक्ता सा मया भर्ता भवामि तव सुव्रते । केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः
ततस् तयौदनाद् अर्धं मह्यम् एकं समर्पितम् । माधवीवामृताद् अर्धम् इन्द्रायाग्निमते पुरा
जम्बूफलरसः पीतस् स भुक्तः पुक्कसौदनः । विश्रान्तं च मया तत्र मोहापहृतचेतसा
मां तडाकम् इवापूर्य सा प्रावृट्श्यामला गता । हस्तेन समुपादाय प्राणं बहिर् इव स्थितम्
दुराकृतिं दुरारम्भम् आससाद भयप्रदम् । पितरं पीवराकारम् अवीचिम् इव शासना
तया मदनुषङ्गिण्या स्वार्थस् तस्मै निवेदितः । मातङ्गाय भ्रमर्येव निस्स्वनेनालिलग्नया
स तस्या बाढम् इत्य् उक्त्वा दिनान्ते समुपस्थिते । मुमोच दान्ताव् आबद्धौ कृतान्तः किङ्कराव् इव
नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितास्व् इव । वेतालवद् वनात् तस्माद् दिनान्ते चलिता वयम्
क्षणेन पक्कणं प्राप्तास् सन्ध्यायां दीर्घजङ्गलात् । श्मशानाद् इव वेतालाश् श्मशानम् इतरन् महत्
विकर्तितवराहाश्वकपिकुक्कुटवायसम् । रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम्
शोषार्थप्रसृतार्द्रान्त्रतन्द्रीजालपतत्खगम् । निष्कुटास्थितजम्बीरषण्डलग्नश्वजाघनि
शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् । दृतिप्रसक्तरक्ताक्तचर्मस्रवदसृग्लवम्
बालहस्तस्थितक्रव्यपिण्डारणितमक्षिकम् । जर्जरज्येष्ठचण्डालतर्जितारटितार्भकम्
तत् प्रविष्टा वयं कीर्णशिरोऽन्त्रं भीमपक्कणम् । मृतभूतं जगत् कल्पे कृतान्तानुचरा इव
सम्भ्रमोपहितानल्पकदलीदलपीठके । अहम् आस्थितवांस् तत्र नवे श्वशुरमन्दिरे
श्वश्र्वा मे केकराक्ष्यास् तु तेनास्रुलवचक्षुषा । जामातायम् इति प्रोक्तं तया तद् अभिनन्दितम्
अथ विश्रम्य चण्डालभोजनान्य् अजिनासने । सञ्चितान्य् उपभुक्तानि दुष्कृतानीव भूरिशः
अनन्तदुःखबीजानि नमनोज्ञतराण्य् अपि । तानि प्रणयवाक्यानि श्रुतान्य् असुभगान्य् अलम्
निरभ्राम्बरनक्षत्रे कस्मिंश्चिन् दिवसे ततः । तैस् तैर् आरम्भसंरम्भैस् तैर् वस्त्रविभवार्पणैः
दत्ताथ तेन सा मह्यं कुमारी भयदायिनी । सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव शासना
सरभसम् अभितो विनेदुर् अत्र प्रसृतमहामदिरासवाश् श्वपाकाः । हतपटुपटहा विलासवन्तस् स्वयम् इव दुष्कृतराशयो महान्तः
बहुनात्र किम् उक्तेन स्वोत्सवावर्जिताशयः । ततःप्रभृति तत्राहं सम्पन्नः पुष्टपुक्कसः
सप्तरात्रोत्सवस्यान्ते क्रमान् मासाष्टकं गतम् । पुष्पिता साथ सम्पन्ना स्थिता गर्भवती ततः
प्रासूत दुःखदां कन्यां विपद् दुःखक्रियाम् इव । सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी
पुनः प्रासूत सा वर्षैस् त्रिभिः पुत्रम् अशोभनम् । अनर्थम् इव दुर्बुद्धिर् आशापाशविधायकम्
पुनः प्रासूत कन्यां च पुनर् अप्य् अर्भकं ततः । कलत्रवान् अहं जातो वने जरढपुक्कसः
तया सह समास् तत्र मया बह्व्यो ऽतिवाहिताः । नरके चिन्तया सार्धं ब्रह्मघ्नेनेव नश्यता
शीतवातातपक्लेशविवशेन वनान्तरे । चिरं विलुलितं वृद्धकच्छपेनेव पल्वले