तत्र जम्बीरषण्डस्य तलं सम्प्राप्तवान् अहम् । मार्काण्डेय इवागेन्द्रम् एकार्णवविहारतः
आलम्बिता मया तत्र स्कन्धसंसङ्गिनी लता । नीला जलदमालेव तापतप्तेन भूभृता
मयि प्रलम्बमाने ऽस्यां प्रयातस् स तुरङ्गमः । गङ्गावलम्बिनि जने यथा दुष्कृतसञ्चयः
चिरदीर्घाध्वगः खिन्नस् तत्र विश्रान्तवान् अहम् । भानुर् अस्ताचलोत्सङ्गे तले कल्पतरोर् इव
यावत् समस्तसंसारव्यवहारभरैस् समम् । रविर् विश्रमणायेव निविष्टो ऽस्ताचलाङ्गने
शनैश् श्यामिकया ग्रस्ते समस्ते भुवनोदरे । रात्रिसंव्यवहारेषु सम्प्रवृत्तेषु जङ्गले
अहं तनुतृणे तस्मिन् पेलवे षण्डकोदरे । निलीनो ऽविरलालस्यस् स्वनीडे विहगो यथा
विपद्भ्रष्टविवेकस्य च्छिन्नाशस्य गलत्स्मृतेः । विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके
तत्र कल्पसमा रात्रिर् मोहमग्नस्य मे गता । एकार्णवोह्यमानस्य मार्काण्डेयमुनेर् इव
न स्नातवान् न स्थितवान् न तदा भुक्तवान् अहम् । केवलं मे गता रात्रिस् सापदां धुरि तिष्ठतः
विनिद्रस्य विधैर्यस्य स्फुरतस् सह पल्लवैः । मम दुःखातिदैर्घ्येण सा व्यतीयाय शर्वरी
ततस् तिमिरलेखासु सह तारेन्दुकैरवैः । मयीवापद्यमानासु म्लानताम् अलसाननैः
शाम्यन्तीषु च वेतालक्ष्वेडास्व् अजनजङ्गले । सह शीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कृतैः
माम् अबन्तरनिर्मग्नं हसन्तीम् इव दृष्टवान् । अहं पूर्वां दिशं प्रातर् मधुपानारुणाम् इव
क्षणाद् अज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् । दृष्टवान् अहम् अर्कं खवारणारोहणोन्मुखम्
उत्थाय वारवाणं च तत आस्फोटितं मया । हस्तिचर्म हरेणेव सन्ध्यानृत्तानुरागिणा
प्रवृत्तस् ताम् अहं स्फारां विहर्तुं जङ्गलस्थलीम् । कालो जगत्कुटीं कल्पदग्धभूतगणाम् इव
न किञ्चिद् दृश्यते तत्र भूतं जरढजङ्गले । अभिजातो गुणलवो यथा मूर्खशरीरके
केवलं विगताशङ्कं षण्डभ्रमणचञ्चलाः । चीचीकूचीचीवचना विहरन्ति विहङ्गमाः
अथाष्टभागम् आपन्ने व्योम्नो दिवसनायके । शुष्कावश्यायलेशासु स्नातास्व् इव लतासु च
भ्रमतात्र मया दृष्टा दारिकौदनधारिणी । गृहीतामृतसत्कुम्भा दानवेनेव माधवी
तरत्तारकनेत्रां तां श्यामाम् अधवलाम्बराम् । अहम् अभ्यागतस् तत्र शर्वरीम् इव चन्द्रमाः
मह्यम् ओदनम् आश्व् एतद् बाले बलवदापदे । देहि दीनार्तिहरणात् स्फारतां यान्ति सम्पदः
क्षुद् अन्तर् दहतीयं मां बाले वृद्धिम् उपेयुषी । कृष्णसर्पी प्रसूतेव कोटरस्था जरद्द्रुमम्
याच्ञयापि तया मह्यम् इत्थं दत्तं न किञ्चन । यत्नप्रार्थितया लक्ष्म्या यथा दुष्कृतिने धनम्
केवलं चिरकालेन मय्य् अत्यन्तानुगामिनि । षण्डात् षण्डं निपतति च्छायाभूते पुरस्स्थिते
तयोक्तो हारकेयूरिंश् चण्डालीं विद्धि माम् इति । राक्षसीम् इव सुक्रूरां पुरुषाश्वगजाननाम्
राजन् याचनमात्रेण मत्तो नाप्नोषि भोजनम् । ग्राम्याद् अनभिजातेहात् सौजन्यम् इव सुन्दर
इत्य् उक्तवत्या गच्छन्त्या स्खलन्त्येव पदे पदे । कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम्
ददानि भोजनम् इदं भर्ता भवसि चेन् मम । लोको नोपकरोत्य् अर्थं सामान्यस् स्निग्धतां विना