रराज राजा साश्चर्यम् उन्मीलितविलोचनः । गते हिमर्तौ प्रोल्लासिपुष्पौघ इव माधवः
अथातिसम्भ्रमाश्चर्यखिन्नस्मितमुखो बभौ । आसन्नमृत्युम् आलोक्य राहुम् इन्दुर् इवाम्बरे
ऐन्द्रजालिकम् आलोक्य प्रोवाचाथ हसन्न् इव । बभ्रुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः
जाल्म जालं जटालेन किम् एतद् भवता कृतम् । मीनस्पन्दाप्रसन्नो ऽब्धिः क्षणाद् एति प्रसन्नताम्
चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः । सुशक्तम् अपि मे चित्तम् आभिर् मोहे निवेशितम्
क्व वयं लोकपर्यायवृत्तान्तपरिदेविनः । क्व मनोमोहदायिन्यो वितताः प्राकृतापदः
अप्य् अभ्यस्तमहाज्ञानं मनस् तिष्ठति देहके । कदाचिन् मोहम् आदत्ते क्षणं मतिमताम् अपि
इदम् आश्चर्यम् आख्यानं शृणुताथ सभासदः । मम शाम्बरिकेणेह यन् मुहूर्तं प्रदर्शितम्
दृष्टवान् अहम् एतस्मिन् बह्वीः कार्यदशाश् चलाः । मुहूर्ते प्रोत्थितध्वस्तशक्रास् सृष्टीर् इवाब्जजः
इत्य् उक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्न् इव । राजा वर्णयितुं चित्रं वृत्तान्तम् उपचक्रमे
इह विविधपदार्थसङ्कुलायां ह्रदनदपर्वतपत्तनाकुलायाम् । कुलशिखरिसमुद्रसङ्कटायां भुवि विभवावलितो ऽस्त्य् अयं प्रदेशः
अस्ति तावद् अयं देशो नानावननदीयुतः । वसुधामण्डलस्यास्य सहोदर इवानुजः
अस्मिंश् चायम् अहम् राजा पौराभिमतवृत्तिमान् । इन्द्रस् स्वर्ग इवास्यां तु सभायाम् अद्य संस्थितः
यावद् अभ्यागतो दूरात् कश्चिच् छाम्बरिकस् त्व् अयम् । रसातलाद् अभ्युत्थितो मायी मय इव स्वयम्
अनेन भ्रामितैषेह पिञ्छिका राजिराजिता । कल्पान्तपवनाभ्रेण शक्रचापलता यथा
आलोक्यैताम् अहं लोलाम् अस्याश्वस्य पुरस्स्थितेः । पृष्ठम् आरूढवान् एक आत्मना भ्रान्तमानसः
ततो ऽद्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा । तथा चलन्तं चलितस् स्वश्वम् आरूढवान् अहम्
गन्तुं प्रवृत्तो मृगयाम् एको ऽहम् अथ रंहसा । उर्वराम् इव निर्भेत्तुं कल्लोलः प्रलयाम्बुधेः
तेनानिलविलोलेन दूरं नीतो ऽस्मि वाजिना । भोगाभ्यासजडेनाज्ञो मुग्धस् स्वमनसा यथा
अकिञ्चनमनश्शून्यं स्त्रीचित्तम् इव दुर्भगम् । ततः प्रलयनिर्दग्धजगदास्पदभीषणम्
निष्पक्षि क्षारनीहारं निर्वृक्षम् अजलं महत् । सम्प्राप्तो ऽहम् अपर्यन्तम् अरण्यं तान्तवाहनः
तद् द्वितीयम् इवाकाशं तथाष्टमम् इवाम्बुधिम् । पञ्चमं सागरम् इव संशुष्कं शून्यकोटरम्
ज्ञस्येव विततं चेतो मूर्खस्येव रुषो ऽजवम् । अदृष्टजनसंसर्गम् अजाततृणपल्लवम्
अरण्यं महद् आसाद्य मतिर् मे खेदम् आगता । ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम्
कचन्मरुमरीच्यम्बुपूरप्लुतककुब्मुखे । आसूर्यान्तं दिनं तत्र प्रक्रान्तं सीदता मया
तद् अरण्यं मयातीतम् अतिकृच्छ्रेण खेदिना । विवेकिनेव संसारो मध्यशून्यातताकृतिः
तद्दिनेनातिवाह्याहं प्राप्तवाञ् जङ्गलं महत् । अस्ताद्रिसानुं खिन्नः खं शून्यं भ्रान्त्वेव भास्करः
जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः । यत्र स्फुरन्ति षण्डेषु पान्थानाम् इव बन्धवः
यत्र शष्पशिखाश्रेण्यो दृश्यन्ते ऽविरलास् स्थले । कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः
पूर्वाद् अरण्याद् अरसात् तद् धि किञ्चित् सुखावहम् । अत्यन्तदुःखान् मरणाद् वरं व्याधिर् हि जन्तुषु