प्रशशाम सभास्थाने जनकोलाहलश् शनैः । प्रशान्तप्रावृषो व्योम्नस् साम्भोदम् इव गर्जितम्
सन्देहसागरोन्मग्ना जग्मुश् चिन्तां सुमन्त्रिणः । विषीदति गदापाणाव् असुराजाव् इवामराः
विततविस्मयजिह्मतया तया जनतया भवमोहनिषण्णया । स्तिमितचक्षुषि भूमिपतौ स्थिते मुकुलिताब्जवनस्य धृता द्युतिः
मुहूर्तद्वितयेनाथ बोधम् आप महीपतिः । प्रावृषेण्याम्बुनिर्मुक्तम् अम्भोरुहम् इवोत्तमम्
आसनात् साङ्गदोत्तंसः प्रबुद्धो ऽसाव् अकम्पत । सवनाभोगशृङ्गाग्रो भूकम्प इव पर्वतः
बभाव् अर्धप्रबुद्धो ऽसाव् आसने परिकम्पितः । विक्षुब्ध इव पातालावरणे मन्दराचलः
पतन्तं धारयाम् आसुस् तं पुरोगा नृपं भुजैः । मेरुं प्रलयविक्षुब्धं कुलशैलास् तटैर् इव
पुरोगैर् धार्यमाणो ऽसौ पर्याकुलमतिर् नृपः । वीचिविक्षोभितस्येन्दोर् बभार वदने श्रियम्
को ऽयं प्रदेशः कस्येयं सभेति स नृपश् शनैः । दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः
अथोवाच सभा देव किम् एतद् इति सादरम् । रणन्मधुकरी भानुं दृष्टराहुम् इवाब्जिनी
अथैनं परिपप्रच्छुः पुरोगा मन्त्रिणस् तथा । प्रलयोल्लाससन्त्रस्तं मार्काण्डेयम् इवामराः
त्वयीत्थं संस्थिते देव वयम् अत्यन्तम् आकुलाः । अभेद्यम् अपि भिन्दन्ति निर्निमित्तभ्रमा मनः
आपातरमणीयेषु पर्यन्तविरसेषु च । भोगेष्व् इव विकल्पेषु केषु ते लुठितं मनः
सततोदारवृत्तासु कथासु परिशीलितम् । मनस् ते निर्मलं कस्मात् सम्भ्रमेषु निमज्जति
तुच्छालम्बनम् आलूनविशीर्णं लोकवृत्तिषु । मनो मोहम् उपादत्ते न महत्त्वविजृम्भितम्
सातत्येन हि यैवास्य मनसो वृत्तिर् उत्थिता । शरीरमदमत्तासु ताम् एवानुविधावति
अतुच्छालम्बनं शुद्धं प्रबुद्धं गुणहारि च । तवापि हि मनश् चित्रम् आलूनम् इव लक्ष्यते
अनभ्यस्तविवेकं हि देशकालवशानुगम् । मन्त्रौषधवशं याति मनो नोदारवृत्तिमत्
नित्यम् आत्तविवेकस्य कथम् आलूनशीर्णता । दुनोति विततं चेतो वात्येव विबुधाचलम्
इति जातासु गीर्ष्व् अस्य भूपतेः कान्तिर् आननम् । भूषयाम् आस शीतांशुं मासान्त इव पूर्णता
रराज राजा साश्चर्यम् उन्मीलितविलोचनः । गते हिमर्तौ प्रोल्लासिपुष्पौघ इव माधवः
अथातिसम्भ्रमाश्चर्यखिन्नस्मितमुखो बभौ । आसन्नमृत्युम् आलोक्य राहुम् इन्दुर् इवाम्बरे
ऐन्द्रजालिकम् आलोक्य प्रोवाचाथ हसन्न् इव । बभ्रुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः
जाल्म जालं जटालेन किम् एतद् भवता कृतम् । मीनस्पन्दाप्रसन्नो ऽब्धिः क्षणाद् एति प्रसन्नताम्
चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः । सुशक्तम् अपि मे चित्तम् आभिर् मोहे निवेशितम्
क्व वयं लोकपर्यायवृत्तान्तपरिदेविनः । क्व मनोमोहदायिन्यो वितताः प्राकृतापदः
अप्य् अभ्यस्तमहाज्ञानं मनस् तिष्ठति देहके । कदाचिन् मोहम् आदत्ते क्षणं मतिमताम् अपि
इदम् आश्चर्यम् आख्यानं शृणुताथ सभासदः । मम शाम्बरिकेणेह यन् मुहूर्तं प्रदर्शितम्
दृष्टवान् अहम् एतस्मिन् बह्वीः कार्यदशाश् चलाः । मुहूर्ते प्रोत्थितध्वस्तशक्रास् सृष्टीर् इवाब्जजः
इत्य् उक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्न् इव । राजा वर्णयितुं चित्रं वृत्तान्तम् उपचक्रमे