स ननाम महीपालं शिखरोदारकन्धरम् । पादोपान्तगतः कान्तं शैलं फलतरुर् यथा
सच्छायस्योन्नतांसस्य फलिनः पुष्पधारिणः । संविवेश पुरो राज्ञस् तरोर् अग्रे कपिर् यथा
चपलो लम्पटो ऽर्थानां सामोदसुखमारुतम् । उवाचोत्कन्धरं भूपं स पद्मम् इव षट्पदः
विलोकय विभो तावद् एकाम् इह खरोलिकाम् । पीठस्थ एव साश्चर्यां व्योम्नश् चन्द्र इवावनिम्
इत्य् उक्त्वा भ्रमिता तेन पिञ्छिका भ्रमदायिनी । नानाविरचनाबीजं मायेव परमात्मना
तां ददर्श महीपालस् तेजोरेखाविराजिताम् । शक्रस् सुरविमानस्थस् स्वकार्मुकलताम् इव
सभां सैन्धवसामन्तो विवेशास्मिन् क्षणे तदा । तारापतिकराकीर्णां व्योमवीथीम् इवाम्बुदः
तं चैवानुजगामाश्वश् शस्यः परमवेगवान् । देवलोकोन्मुखस् त्व् अब्धेश् शक्रम् उच्चैश्श्रवा इव
स तम् अश्वम् उपादाय पार्थिवं समुवाच ह । सोच्चैश्श्रवा इव क्षीरसागरो मरुतां पतिम्
इदम् उच्चैश्श्रवःप्रख्यं हयरत्नं महीपते । जवे जयनशीले तु मूर्तिमान् इव मारुतः
अश्वो ऽयम् अस्मत्प्रभुणा प्रभो सम्प्रहितस् त्वयि । राजते हि पदार्थश्रीर् महताम् अर्पणाच् छुभा
इत्य् उक्तवति तस्मिंस् तु प्रत्युवाचैन्द्रजालिकः । जलदस्तनिते शान्ते चातको भूधरं यथा
सदश्वम् एनम् आरुह्य भुवनं विहर प्रभो । स्वप्रतापाहितानल्पशोभाम् उर्वीं रविर् यथा
अश्वम् आलोकयाम् आस तेनोक्त इति पार्थिवः । निर्ह्रादसूचितं मेघं स मयूर इवोत्सुकः
अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः । बभूवालोकयन्न् अश्वं लिपिकर्मार्पितोपमम्
क्षणम् आलोक्य पिञ्छाश्वौ तस्थौ स स्थगितेक्षणः । दृष्टक्षुब्धसमुद्राद्रिर् भीरुर् एकतरो यथा
तस्थौ मुहूर्तयुग्मं तु ध्यानासक्त इवात्मनि । वीतरागो मुनिर् बुद्धः परानन्द इव स्थितः
बोधितः केनचिन् नासौ स्वप्रतापजितोर्जितः । भयात् काम् अप्य् अयं भूपश् चिन्तां चिन्तयतीति ह
बभूवुः केवलं तत्र निस्स्पन्दसितचामराः । चामरिण्यो हि शर्वर्यस् स्तम्भितेन्दुकरा इव
विरेजुर् विस्मयापूर्णा निस्स्पन्दास् ते सभासदः । निस्स्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव
प्रशशाम सभास्थाने जनकोलाहलश् शनैः । प्रशान्तप्रावृषो व्योम्नस् साम्भोदम् इव गर्जितम्
सन्देहसागरोन्मग्ना जग्मुश् चिन्तां सुमन्त्रिणः । विषीदति गदापाणाव् असुराजाव् इवामराः
विततविस्मयजिह्मतया तया जनतया भवमोहनिषण्णया । स्तिमितचक्षुषि भूमिपतौ स्थिते मुकुलिताब्जवनस्य धृता द्युतिः
मुहूर्तद्वितयेनाथ बोधम् आप महीपतिः । प्रावृषेण्याम्बुनिर्मुक्तम् अम्भोरुहम् इवोत्तमम्
आसनात् साङ्गदोत्तंसः प्रबुद्धो ऽसाव् अकम्पत । सवनाभोगशृङ्गाग्रो भूकम्प इव पर्वतः
बभाव् अर्धप्रबुद्धो ऽसाव् आसने परिकम्पितः । विक्षुब्ध इव पातालावरणे मन्दराचलः
पतन्तं धारयाम् आसुस् तं पुरोगा नृपं भुजैः । मेरुं प्रलयविक्षुब्धं कुलशैलास् तटैर् इव
पुरोगैर् धार्यमाणो ऽसौ पर्याकुलमतिर् नृपः । वीचिविक्षोभितस्येन्दोर् बभार वदने श्रियम्
को ऽयं प्रदेशः कस्येयं सभेति स नृपश् शनैः । दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः
अथोवाच सभा देव किम् एतद् इति सादरम् । रणन्मधुकरी भानुं दृष्टराहुम् इवाब्जिनी