व्यामोहसम्भ्रमानर्थदेशकालगमागमाः । चेतसः प्रभवन्त्य् एते पादपाद् इव पल्लवाः
जलम् एव यथाम्भोधिर् औष्ण्यम् एव यथानलः । तथा विविधसंरम्भस् संसारश् चित्तम् एव हि
सकर्तृकर्मकरणं यद् इदं चेत्यम् आततम् । द्रष्टृदर्शनदृश्याढ्यं तत् सर्वं चित्तम् एव वः
चित्तं जगन्ति भुवनानि वनान्तराणि संलक्ष्यते स्वयम् उपागतम् आत्मभेदैः । केयूरमौलिकटकैस् तदतत्स्वरूपं त्यक्तैककाञ्चनधियेव जनेन हेम
अत्र ते शृणु वक्ष्यामि वृत्तान्तम् इमम् अद्भुतम् । जागतीहेन्द्रजालश्रीश् चित्तायत्ता स्थिता यथा
अस्त्य् अस्मिन् वसुधापीठे नानानगवनाकुलः । उत्तराः पाण्डवा नाम स्फीतो जनपदो महान्
नीरन्ध्रनवजम्बीरवनविश्रान्ततापसः । विद्याधरीकृतलतादोलोपवनपत्तनः
वातोद्धूताब्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः । लसत्कुसुमसम्भारवनमालावतंसकः
करञ्जमञ्जरीकुञ्जगुप्तपर्यन्तजङ्गलः । खर्जूरान्तरितग्रामघुङ्घुमध्वनिताम्बरः
पाकपिङ्गमिलच्छ्रेणिशालिकेदारपिङ्गलः । नीलकण्ठरवोद्दामवनमण्डलमण्डितः
सारसारवसंरम्भरणत्कमलकाननः । तमालपटलानीलगिरिग्रामककुण्डलः
विचित्रविहगव्यूहविरावाहितकाकलिः । नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः
गायत्कलमकेदारदारिकाहूतमन्मथः । पुष्पस्थलवलद्वातव्याधूतकुसुमाम्बुदः
दरीगृहविनिष्क्रान्तसिद्धचारणवन्दितः । स्वर्गाद् इव समाहूय लावण्यम् अभिनिर्मितः
गायत्किन्नरपर्यन्तकदलीषण्डमण्डितः । मन्दानिलबलोद्धूतपुष्पोपवनपाण्डुरः
तत्रास्ति लवणो नाम राजा परमधार्मिकः । हरिश्चन्द्रकुलोद्भूतो भूमाव् इव दिवाकरः
यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः । तत्र शैला विराजन्ते हराः प्रोद्धूलिता इव
कृपाणशकलोत्कृत्तनिश्शेषारातिमण्डलात् । अरातिलोकः प्राप्नोति यदनुस्मरणाज् ज्वरम्
यस्योदारसमारम्भम् आर्यलोकानुपालनम् । चरितं संस्मरिष्यन्ति हरेर् इव चिरं जनाः
यस्याप्सरोभिर् अद्रीन्द्रमूर्धस्व् अमरसद्मसु । विकासिपुलकोल्लासं गीयन्ते गुणगीतयः
यस्य स्वस्सुन्दरीगीता लोकपालचिरश्रुताः । विरिञ्चहंसैर् ध्वन्यन्ते स्वाभ्यासाद् गुणगीतयः
स्वप्नेष्व् अपि न सामान्या यस्योदारचमत्कृतेः । राम दृष्टाश् श्रुता वापि दैन्यदोषमरीचयः
जिह्मतां यो न जानाति न दृष्टा येन गृध्नुता । उदारता येन धृता ब्रह्मणेवाक्षमालिका
दिनाष्टभाग आकाश आगते दिवसाधिपे । कदाचित् स सभास्थाने सिंहासनगतो ऽभवत्
सुखोपविष्टे तत्रास्मिन् राजनीन्दाव् इवाम्बरे । प्रविशन्तीषु सामन्तसेनासु च ससम्भ्रमम्
गायन्तीष्व् अथ कान्तासु सूपविष्टेषु राजसु । मनोहरति साह्लादे वीणावंशकलारवे
चारुचामरहस्तासु सविलासासु राजनि । देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले
प्रस्तुतेषु प्रकृष्टेषु राजकार्येषु मन्त्रिभिः । प्रोक्तासु देशवार्तासु निपुणैश् चारतन्त्रिभिः
इतिहासमये पुण्ये वाच्यमाने च पुस्तके । पठत्सु च स्तुतीः पुण्याः पुरःप्रह्वेषु वन्दिषु
सभां विवेश साटोपः कश्चित् ताम् ऐन्द्रजालिकः । वर्षणाहितसंरम्भो वसुधाम् इव वारिदः