असङ्कल्पनमात्रेण स्वविकल्पदशाम् इदम् । मनस् संसाधयत्य् आशु क्लेशो नात्रोपयुज्यते
स्वं विकल्प्य विकल्प्याशु विवेकोपहितं मनः । सन्त्यज्य रूपम् आरम्भि करोत्य् आत्मावबोधनम्
महोदयो मनोनाशो महोत्पातो ऽस्य तूदयः । मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे
अविरलसुखदुःखवृक्षषण्डे विषमकृतान्तमहोरगे वने ऽस्मिन् । प्रभुर् इदम् अखिले विवेकहीनं सुभग मनो महद् आपदेकहेतुः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
परस्माद् उत्थितं चेतः कणो लोल इवार्णवात् । स्फारताम् एत्य भुवनं तनोतीदम् इतस् ततः
ह्रस्वं दीर्घीकरोत्य् आशु दीर्घं नयति खर्वताम् । स्वतां नयत्य् अन्यद् अलं स्वं तथैवान्यताम् अपि
प्रादेशमात्रम् अपि यद् वस्तु भावनयैव तत् । स्वयं सम्पन्नयैवाशु करोत्य् अद्रीन्द्रभासुरम्
लब्धप्रतिष्ठं परमात् पदाद् उल्लसितं मनः । निमेषेणैव संसारान् करोति न करोति च
यद् इदं दृश्यते किञ्चिज् जगत् स्थास्नु चरिष्णु च । सर्वं सर्वप्रकाराढ्यं चित्ताद् एतद् उपागतम्
देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् । भावाद् भावान्तरं याति लोलत्वान् नटवन् मनः
सद् असत्तां नयत्य् आशु सत्तां चासन् नयत्य् अलम् । तादृशान्य् एव चादत्ते सुखदुःखानि भावितम्
यथानिश्चयम् आदत्ते यथैव चपलं मनः । हस्तपादादिसङ्घातस् तथा प्रयतते सदा
ततस् सैव क्रिया चित्तसमीहितम् अलं फलम् । क्षणात् प्रयच्छति लता काले सिक्तेव तादृशम्
चित्रां क्रीडनकश्रेणीं यथा पङ्काद् गृहे शिशुः । करोत्य् एवं मनो राम विकल्पात् कुरुते जगत्
मनश्शिशुजनक्रीडामृदूद्गारलवेष्व् अतः । किम् एकं तत्पदार्थेषु रूपं जगति कल्प्यते
करोत्य् ऋतुकरः कालो यथा रूपान्यतां तरोः । चित्तम् एवं पदार्थानां तेषाम् एवान्यताम् इह
मनोरथे तथा स्वप्ने सङ्कल्पकलनासु च । गोष्पदं योजनव्यूहस् स्वासु लीलासु चेतसः
कल्पं क्षणीकरोत्य् एतत् क्षणं नयति कल्पताम् । मनस् तदायत्तम् अतो देशकालक्रमं विदुः
तीव्रमन्दत्वसंवेगाद् बहुत्वाल्पत्वभेदतः । विलम्बते न च चिरं न च चित्तम् अशक्तितः
व्यामोहसम्भ्रमानर्थदेशकालगमागमाः । चेतसः प्रभवन्त्य् एते पादपाद् इव पल्लवाः
जलम् एव यथाम्भोधिर् औष्ण्यम् एव यथानलः । तथा विविधसंरम्भस् संसारश् चित्तम् एव हि
सकर्तृकर्मकरणं यद् इदं चेत्यम् आततम् । द्रष्टृदर्शनदृश्याढ्यं तत् सर्वं चित्तम् एव वः
चित्तं जगन्ति भुवनानि वनान्तराणि संलक्ष्यते स्वयम् उपागतम् आत्मभेदैः । केयूरमौलिकटकैस् तदतत्स्वरूपं त्यक्तैककाञ्चनधियेव जनेन हेम
अत्र ते शृणु वक्ष्यामि वृत्तान्तम् इमम् अद्भुतम् । जागतीहेन्द्रजालश्रीश् चित्तायत्ता स्थिता यथा
अस्त्य् अस्मिन् वसुधापीठे नानानगवनाकुलः । उत्तराः पाण्डवा नाम स्फीतो जनपदो महान्
नीरन्ध्रनवजम्बीरवनविश्रान्ततापसः । विद्याधरीकृतलतादोलोपवनपत्तनः
वातोद्धूताब्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः । लसत्कुसुमसम्भारवनमालावतंसकः
करञ्जमञ्जरीकुञ्जगुप्तपर्यन्तजङ्गलः । खर्जूरान्तरितग्रामघुङ्घुमध्वनिताम्बरः
पाकपिङ्गमिलच्छ्रेणिशालिकेदारपिङ्गलः । नीलकण्ठरवोद्दामवनमण्डलमण्डितः