असम्यग्दर्शनं तेन त्यज राम निराश्रयम् । साश्रयं सत्यम् आनन्दि सम्यग्दर्शनम् आश्रय
धिया विचारधर्मिण्या मोहसंरम्भहीनया । विचारयाधुना सत्यम् असत्यं सम्परित्यज
अबद्धो बद्ध इत्य् उक्त्वा किं शोचसि मुधैव हि । अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते
नानानानात्वकलनास्व् अविभिन्ने महात्मनि । सर्वस्मिन् ब्रह्मतत्त्वे ऽस्मिन् किं बद्धं किं विमुच्यते
अनार्तो ऽप्य् आर्तिसद्भावाच् छिन्ने ऽङ्गे किं च ताम्यसि । भेदाभेदविकारार्तिः काचिन् नात्मनि विद्यते
देहे नष्टे क्षते क्षीणे कात्मनः क्षतिर् आगता । भस्त्रायां परिदग्धायां तत्स्थं हेम न नश्यति
देहः पततु वोदेतु का नः क्षतिर् उपागता । को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः
आपतन्तु वपुःपद्मं सुखदुःखहिमश्रियः । आकाशोड्डयने ऽलीनां का नः क्षतिर् उपस्थिता
देहः पततु वोदेतु यातु वा गगनान्तरम् । तद्विलक्षणरूपस्य कासौ भवति ते क्षतिः
यथा पयोदमरुतोर् यथा षट्पदपद्मयोः । तथा राघव सम्बन्धस् त्वच्छरीरत्वदात्मनोः
मनो नाम शरीरं हि जगतस् सकलस्य च । आत्मशक्तिश् चिद् अस्यात्मा न नश्यति कदाचन
यो ऽसाव् आत्मा महाप्राज्ञ नश्यतीत्य् अवगच्छसि । न नश्यति कदाचिद् स किं मुधा परितप्यसे
विशीर्णे ऽभ्रे यथा वातश् शुष्के ऽब्जे षट्पदो यथा । यात्य् अनन्तपदं व्योम तथात्मा देहसङ्क्षये
संसारे ऽस्मिन् विहरतो मनो ऽपि हि न नश्यति । ज्ञानाग्निना विना जन्तोर् आत्मनाशे तु का कथा
यः कुण्डबदरन्यायो यो घटाकाशयोः क्रमः । स्थितिर् देहात्मनोस् सैव सविनाशाविनाशयोः
बदरं हस्तम् आयाति यथा स्फुटति कुण्डके । आत्मा गगनम् आयाति तथा चलति देहके
कुम्भे गच्छत्य् अकुम्भत्वं कुम्भाकाशो यथाम्बरे । तिष्ठत्य् एवम् अयं देही देहे क्षीणे निरामयः
मनो देहो हि जन्तूनां देशकालतिरोहितः । मुहुर् मृतिपटाच्छन्नश् शेते किं परिदेवना
देशकालतिरोधाने मूढो ऽपि मरणे नरः । किं बिभेति महाबाहो नेह नश्यति कश्चन
अतस् त्वं वासनां राम मिथ्यैवाहम् इति स्थिताम् । त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम्
यैषा हि मानसी शक्तिर् इष्टानिष्टानुबन्धिनी । अनयेदं मुधा भ्रान्त्या स्वप्नवत् परिकल्पितम्
अविद्यैषा दुरन्तैषा दुःखायैषा हि वर्धते । अपरिज्ञायमानैषा तनोतीदम् असन्मयम्
एषा कुड्यवद् आकाशं तुषारम् अनलं यथा । परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः
असद् एवेदम् आरम्भमन्थरं सद् इवोत्थितम् । कल्पितं जगद् आभोगि दीर्घस्वप्न इवैतया
भावनामात्रम् एवास्यास् स्वरूपं कर्तृतां गतम् । जगताम् आकुलं चक्षुर् व्योम्नि पिञ्छकताम् इव
लयम् अस्यास् स्वरूपं त्वं नय राम विचारणात् । यथा हिमशिलायास् तु तपनाद् दिवसाधिपः
हिमाभावार्थिनो ऽर्कस्य स्वोदयेन हितं यथा । सिध्यत्य् एवं विचारेण मनोनाशार्थिनो ऽर्थितम्
अविद्या सम्प्रवृत्ता हि विततानर्थदुर्गमा । नानेन्द्रजालकलणं शाम्बरी हेम वर्षति
स्वविनाशक्रियां चैतां मन एव करोत्य् अलम् । मनो ह्य् आत्मवधं नाम नाटकं परिनृत्यति
आत्मानम् ईक्षते चेतस् स्वविनाशाय केवलम् । न हि जानाति दुर्बुद्धिर् विनाशं प्रत्युपस्थितम्