शरीरषण्डकोद्भूता रम्या यौवनवल्लरी । लग्नम् एव मनोभृङ्गं मदयत्य् उन्नतिं गता
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् । मनोमृगाः प्रधावन्तः पतन्ति विषमावटे
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणस् सटा । लहरी जीविताम्भोधेर् युवता मे न रोचते
दिनानि कतिचिद् येयं फलिता देहजङ्गले । युवताशरद् अस्यां हि न समाश्वासम् अर्हथ
झगित्य् एव प्रयात्य् एष शरीराद् युवताखगः । क्षणेनैवाल्पभाग्यस्य हस्ताच् चिन्तामणिर् यथा
यदा यदा परां कोटिम् अभ्यारोहति यौवनम् । वल्गन्ति सरसाः कामास् तदा नाशाय केवलम्
तावद् एव विवल्गन्ति रागद्वेषपिशाचिकाः । नास्तम् एति समस्तैषा यावद् यौवनयामिनी
नानाधिकारबहुले वराके क्षणनाशिनि । कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा
हर्षम् आयाति यो मोहात् पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धस् स वै नरमृगस् स्मृतः
मानमोहमदोन्मत्तं यौवनं यो ऽभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते
ते धर्म्यास् ते महात्मानस् त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णास् साधो यौवनसङ्कटात्
सुखेन तीर्यते ऽम्भोधिर् उत्कृष्टमकराकरः । न कल्लोलवनोल्लासि सदोषं हतयौवनम्
विनयभूषितम् आर्यजनास्पदं करुणयोज्ज्वलम् आवलितं गुणैः । इह हि दुर्लभम् अङ्ग सुयौवनं जगति काननम् अम्बरगं यथा
मांसपुत्तलिकायाश् च यन्त्रलोलाङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्यास् स्त्रियाः किम् इव शोभनम्
त्वङ्मांसरक्तबाष्पास्रु पृथक् कृत्वा विलोचनम् । समालोकय रम्यं चेत् किं मुधा परिमुह्यसि
इतः केशा इतो रक्तम् इतीयं प्रमदातनुः । किम् एतया निन्दितया करोतु विपुलाशयः
वासोविलेपनैर् यानि लालितानि पुनः पुनः । तान्य् अङ्गान्य् अवलुम्पन्ति क्रव्यादास् सर्वदेहिनाम्
मेरोश् शृङ्गतटोल्लासिगङ्गाजलरयोपमाः । दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः
श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिर् आस्वाद्यते काले लघुपिण्ड इवान्धसः
रक्तमांसादिदिग्धानि करभस्य यथा वने । तथैवाङ्गानि कामिन्यास् तत् प्रत्य् अपि हि को ग्रहः
आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः । मन्ये तद् अपि नास्त्य् अत्र मुने मोहैककारणे
विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् । को विशेषो विकारिण्या मदिराया इह स्त्रियाः
ललनालानसंलीना मुने मानवदन्तिनः । प्रबोधं नाधिगच्छन्ति दीर्घैर् अपि शमाङ्कुशैः
केशकज्जलधारिण्यस् तीक्ष्णाः प्रकृतितस् सदा । दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन् नरम्
ते वन्द्यास् ते महात्मानस् त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णास् साधो यौवतसङ्कटात्
ज्वलताम् अपि दूरे ऽपि सरसा अपि नीरसम् । स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम्
कीर्णान्धकारकवरी तरत्तारकलोचना । पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी
लीलाविलोलपरुषा कार्यसंहारकारिणी । परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी
पुष्पाभिराममधुरा करपल्लवलासिनी । भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी
पुष्पकेसरगौराङ्गी नरमारणतत्परा । ददात्य् उत्तमवैवश्यं कान्ता विषमहालता