पुनर् दूरतरं गत्वा मध्याह्ने समुपस्थिते । सरित्त्रितयम् आसेदुस् तरङ्गतरलारवम्
तत्रैका परिशुष्कैव मनाग् अप्य् अम्बु न द्वयोः । विद्यते सरितोर् दृष्टिर् अन्धलोचनयोर् इव
परिशुष्का भृशं यासौ तस्यां ते सस्नुर् आदृताः । घर्मार्ता दिवि गङ्गायां विष्णुब्रह्महरा इव
चिरं कृत्वा जलक्रीडां पीत्वामृतसमं पयः । जग्मुस् ते राजतनयाः प्रहृष्टमनसस् सुखम्
अथासेदुर् दिनस्यान्ते लम्बमाने दिवाकरे । भविष्यन् नवनिर्माणं नगरं नगसन्निभम्
पताकापद्मिनीव्याप्तनीलाम्बरजलाशयम् । दूरश्रुतिसमुल्लासगायन्नगरमण्डलम्
ददृशुस् तत्र रम्याणि त्रीणि सद्विभवानि ते । मणिकाञ्चनगेहानि शृङ्गाणीव महागिरेः
अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै । अभित्तिमन्दिरं चारु प्रविष्टास् ते नरास् त्रयः
सम्प्रविश्योपविश्याशु विहरन्तो वराननाः । प्रापुस् स्थालीत्रयं तत्र तप्तकाञ्चननिर्मितम्
यत्र कर्परतां याते द्वे एका चूर्णतां गता । जगृहुश् चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः
द्रोणैर् नवनवत्या तैस् तस्यां द्रोणेन चान्धसः । तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः
ततो भुक्तं जनशतैर् ब्राह्मणानां शतैस् तथा । त्रिभिस् तै राजपुत्रैश् च परां निर्वृतिम् आगतैः
भविष्यन्नगरे तस्मिन् राजपुत्रास् त्रयो ऽपि ते । सुखम् अद्य स्थिताः पुत्र मृगयाव्यवहारिणः
आख्यायिकैषा कथिता मया रम्या तवानघ । एतां हृदि कुरु प्राज्ञ विदग्धस् त्वं भविष्यसि
धात्र्येति कथिता राम बालायाख्यायिका शुभा । तुष्टिं जगाम बालश् च शुभाख्यायिकयानया
एषा हि कथिता राम चित्ताख्यानकथां प्रति । बालकाख्यायिका तुभ्यं मया कमललोचन
इयं संसाररचना स्थितिम् एवम् उपागता । बालकाख्यायिकेवोग्रैस् सङ्कल्पैर् व्यर्थकल्पितैः
विकल्पजालिकैवेयं प्रतिभासात्मिकानघ । बन्धमोक्षादिकलनारूपेण प्रविजृम्भते
सङ्कल्पमात्राद् इतरद् विद्यते नेह किञ्चन । सङ्कल्पवशतः किञ्चिन् नकिञ्चित् किञ्चिद् एव वा
द्यौः क्षमा वायुर् आकाशः पर्वतास् सरितो दिशः । सङ्कल्पकलितं सर्वम् एतत् स्वप्नवद् आत्मनः
राजपुत्रास् त्रयो नद्यो भविष्यन्नगरं तथा । यथा सङ्कल्परचना तथेयं त्रिजगत्स्थितिः
सङ्कल्पमात्रम् अभितः परिस्फुरति चञ्चलम् । पयोमात्रात्मको ऽम्भोधिर् अम्भसीवात्मनात्मनि
सङ्कल्पमात्रम् उत्पन्नं प्रथमं परमात्मनि । तद् इदं स्फारतां यातं व्यापारैर् दिवसं यथा
सङ्कल्पजालकलनैव जगत् समग्रं सङ्कल्पम् एव ननु विद्धि विलासि चेत्यम् । सङ्कल्पमात्रम् अलम् उत्सृज निर्विकल्पम् आश्रित्य निश्चयम् अवाप्नुहि राम शान्तिम्
स्वसङ्कल्पवशान् मूढो मोहम् एति न पण्डितः । अयक्षे यक्षसङ्कल्पान् मुह्यते शिशुनैव हि
को ऽसौ सङ्कल्पितः केन यक्षो ब्रह्मविदां वर । असतैव महामोहं येनादत्ते सदैव हि
अमुना भूतसङ्गेन यक्षो ऽहङ्काररूपधृत् । वेतालश् शिशुनेवेह मिथ्यैव परिकल्पितः
एकस्मिन्न् एव सर्वस्मिन् स्थिते परमवस्तुनि । कुतः को ऽयम् अहं नाम कथं नाम किलोदितः
वस्तुतो नास्त्य् अहङ्कारः परमात्मन्य् अभेदतः । असम्यग्दर्शनान् मार्गी सरित् तीव्रातपे यथा
मनोमणिर् महारम्भस् संसार इति लक्ष्यते । आत्मनात्मानम् आश्रित्य स्फुरत्य् अम्बु यथाम्बुना