द्वौ न जातौ तथैकश् च गर्भ एव हि न स्थितः । शुभाचाराश् शुभाकारा इति भान्तीन्दवो यथा
अथात्युत्तमलाभार्थम् एकदा समवायतः । निर्बन्धवः खिन्नमुखाश् शोकोपहतचेतसः
ते तस्माच् छून्यनगरान् निर्गता विकृताननाः । गगनाद् इव संश्लिष्टा बुधशुक्रशनैश्चराः
शिरीषसुकुमाराङ्गाः पृष्ठतो ऽर्केण तापिताः । मार्गे ग्लानिं गता ग्रीष्मतापार्त्या पल्लवा इव
सन्तप्तमार्गसिकतादग्धपादसरोरुहाः । हा ताताम्बेति शोचन्तो मृगा यूथच्युता इव
दर्भाग्रभिन्नचरणास् तापस्विन्नाङ्गसन्धयः । उल्लङ्घ्य दूरम् अध्वानं धूलिधूसरमूर्तयः
मञ्जरीजालजटिलं फलपल्लविताम्बरम् । मृगपक्षिगणाधारं प्रापुर् मार्गे तरुत्रयम्
तस्मिन् वृक्षत्रये वृक्षौ द्वौ न जातौ मनाग् अपि । बीजम् एव तृतीयस्य स्वारोहस्य न विद्यते
विश्रान्तास् ते परिश्रान्तास् तत्रैकस्य तरोर् अधः । पारिजाततले स्वर्गे शक्रानिलयमा इव
फलान्य् अमृतसृष्टानि भुक्त्वा पीत्वा च तद्रसम् । कृत्वा गुलुच्छकैर् मालाश् चिरं विश्रम्य ते ययुः
पुनर् दूरतरं गत्वा मध्याह्ने समुपस्थिते । सरित्त्रितयम् आसेदुस् तरङ्गतरलारवम्
तत्रैका परिशुष्कैव मनाग् अप्य् अम्बु न द्वयोः । विद्यते सरितोर् दृष्टिर् अन्धलोचनयोर् इव
परिशुष्का भृशं यासौ तस्यां ते सस्नुर् आदृताः । घर्मार्ता दिवि गङ्गायां विष्णुब्रह्महरा इव
चिरं कृत्वा जलक्रीडां पीत्वामृतसमं पयः । जग्मुस् ते राजतनयाः प्रहृष्टमनसस् सुखम्
अथासेदुर् दिनस्यान्ते लम्बमाने दिवाकरे । भविष्यन् नवनिर्माणं नगरं नगसन्निभम्
पताकापद्मिनीव्याप्तनीलाम्बरजलाशयम् । दूरश्रुतिसमुल्लासगायन्नगरमण्डलम्
ददृशुस् तत्र रम्याणि त्रीणि सद्विभवानि ते । मणिकाञ्चनगेहानि शृङ्गाणीव महागिरेः
अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै । अभित्तिमन्दिरं चारु प्रविष्टास् ते नरास् त्रयः
सम्प्रविश्योपविश्याशु विहरन्तो वराननाः । प्रापुस् स्थालीत्रयं तत्र तप्तकाञ्चननिर्मितम्
यत्र कर्परतां याते द्वे एका चूर्णतां गता । जगृहुश् चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः
द्रोणैर् नवनवत्या तैस् तस्यां द्रोणेन चान्धसः । तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः
ततो भुक्तं जनशतैर् ब्राह्मणानां शतैस् तथा । त्रिभिस् तै राजपुत्रैश् च परां निर्वृतिम् आगतैः
भविष्यन्नगरे तस्मिन् राजपुत्रास् त्रयो ऽपि ते । सुखम् अद्य स्थिताः पुत्र मृगयाव्यवहारिणः
आख्यायिकैषा कथिता मया रम्या तवानघ । एतां हृदि कुरु प्राज्ञ विदग्धस् त्वं भविष्यसि
धात्र्येति कथिता राम बालायाख्यायिका शुभा । तुष्टिं जगाम बालश् च शुभाख्यायिकयानया
एषा हि कथिता राम चित्ताख्यानकथां प्रति । बालकाख्यायिका तुभ्यं मया कमललोचन
इयं संसाररचना स्थितिम् एवम् उपागता । बालकाख्यायिकेवोग्रैस् सङ्कल्पैर् व्यर्थकल्पितैः
विकल्पजालिकैवेयं प्रतिभासात्मिकानघ । बन्धमोक्षादिकलनारूपेण प्रविजृम्भते
सङ्कल्पमात्राद् इतरद् विद्यते नेह किञ्चन । सङ्कल्पवशतः किञ्चिन् नकिञ्चित् किञ्चिद् एव वा
द्यौः क्षमा वायुर् आकाशः पर्वतास् सरितो दिशः । सङ्कल्पकलितं सर्वम् एतत् स्वप्नवद् आत्मनः